________________
आबद्धनेत्रपुटपातिततेजसाऽन्तनेत्रं निभाल्य विततं शुभशोणवर्णम् । आकर्ण्य कर्णयुगसम्भ्रमणं गजस्य चक्षुर्विकासमकरोदपनीतपापः ॥५५॥
किं विद्युता सहगतं शुचिशारदा_ किं वा सहस्रकिरणेन युतं सुमेरुम् । किंस्वित् सुवर्णमुकुटेन युतं नृपास्यं आरूढयक्षमवलोकयति स्म नागम् ॥५६।।
मातङ्गमेककरलग्नसुवर्णकुम्भ हस्तेषु षट्सु च विराजितरक्तपत्रम् । हस्तैर्नु सप्तभिरपाकृतसप्तभीति सप्तोर्ध्वराजभुवमेव समं स्पृशन्तम् ॥५७।।
पीयूषसागरमहालहरीकफेन राजाश्मनेव नवनीतविशालपिण्डैः । किंवा सुपक्वकदलीफलसारभागनिर्मापितं धवलवर्णमवर्णनीयम् ॥५८॥
सौवर्णपादकटकैरिव पीतपुष्पैस्स्तम्भेषु रौप्यघटितेषु पदेषु बद्धम् । मुक्तासहोदरनखेष्वनुलग्नदुर्वं व्यावृत्तपादतलधारितभव्यकायम् ॥५९॥
सत्त्वातिरेकमदवर्धिततुङ्गकुम्भमाकर्षितागणितषट्चरणं मदाप्सु । सुस्निग्धकान्ति-मृदुकोण-वराटकाक्षं हारावलीललितकण्ठकमम्बुजौष्ठम् ॥६०॥
१४८
श्रीमाणिभद्रमहाकाव्यम् ८