________________
वीणारणत्कृतिसमस्वरवाचिकाया देव्याः समक्षमधुनाऽऽनकधीरघोषम् । सूरिर्जगाद मुनयो मम किन्तु मृत्याऽ बाध्यन्त एतदतिशायितमस्ति दुःखम् ॥३७।।
चारित्रमात्मचरणादनुपालयन्तं गोपायति श्रमणमात्मचरित्रमेव । तस्यासवो निहतकर्मभरा: प्रसन्ना युञ्जन्ति तं सकलोकहितक्रियासु ॥३८॥
पक्षान्तरेषु परिमार्जितदेहभागाः स्वापेऽप्यमी न यतनाविधुरा भवन्ति । साक्षात्कृतां सहजचिद्घनशान्तिधारामन्येषु सौम्यवचनैरनुवर्षयन्ति ॥३९॥
शीतांशु-फेन-घृत-दुग्धसहोदरण ध्यानेन मोह-मद-मार-निवारणेन । स्वाध्याय-सूनृत-समत्व-सुसाधितेन धन्यान् मुनीन् सुरवराः प्रणमन्ति नित्यम् ॥४०॥
सन्तोष-शौच-यम-मार्दव-शील-मुक्तिनिष्काञ्चनाऽऽर्जव-तपस्समतावतारान् । साक्षान् ममैव यतिधर्मनवस्वरूपानस्तङ्गतानिह विलोक्य कथं गुरुस्स्याम् ॥४१॥
नैवातिचारिचरितं न गुरावनास्था नासक्तिलिप्तहृदयं न मदाकुलत्वम् । नाज्ञाविरुद्धवचनं न कषायवेगः कस्मादहो विनिहता मुनयस्तथापि ॥४२।।
१४२
श्रीमाणिभद्रमहाकाव्यम् ८