________________
१४०
वातायनात् पथिकलोकनिमन्त्रणानि द्वारागतांश्च कटुशब्दतिरस्कृतानि । प्रश्नेष्वनल्परुदितैरवमानितानि
तन्वन् मुनिर्गुरुवरान् कुरुतेऽसहायान् ॥३१॥
एकैकमेवमनुदारविकारवन्तं
निर्माय रोगरटिताऽऽरवणेन साकम् । सन्ध्यासु भानुकिरणैरिव कालदेव
भोज्यं करोति यमिनो विषमः प्रयोगः ||३२||
विक्षोभिता गुरुवरा दशसङ्ख्ययैवं कालाशितेषु दिवसैर्दशभिर्यतेषु । कालस्य कोपमतिरोषणमीक्षमाणा
आनन्दहेमगुरवोऽभ्युपयान्ति खेदम् ||३३||
श्रीसूरिमन्त्रजपमध्यधिकं वितेनुः निस्तन्द्रमेकरसमष्टमभक्तयुक्तम् । मन्त्राक्षरेण शुभभावविभावितेन जागर्ति शं सततसन्निहितामरेण ॥ ३४ ॥
प्रत्यक्षमिन्दुवदनामरविन्दनेत्रामाभाभिरंशुपतिमानहरीं निदध्युः । सूरीश्वरा रहसि तीर्थसुरीं पृथिव्याः खण्डे स्थिताममृतपानवितानशालाम् ॥३५॥
आचक्षते स्म भवती भवतीर्थरूपैराज्ञापिताऽस्मि मम भाग्यमिदं पुनद्भिः । आवेद्यता भगवता मयि कार्यसेवा हेवा ममैव युगपत् सकलाऽस्तु पूर्णा ||३६||
श्रीमाणिभद्रमहाकाव्यम् ८