________________
सर्गः ७
(स्रग्विणीवृत्तम् )
वैभवैरुत्तमैः श्रेष्ठिनो मन्दिर देवपूजारसैरेकतानाऽस्ति चित् । अर्हतामहणायां सदा स्निह्यता चन्द्रकान्तोपमा चित्तशुद्धिर्भवेत् ॥१॥ नीरधारामुदारां स विस्तारयन् मज्जति स्मात्मनि स्त्रस्तरागाङ्घसः । नेत्रकोणस्थिताऽऽनन्दवारिष्वपि बिम्बबिम्बच्छलादर्हतां स्नापयन् ॥२॥ मूर्तये चान्दनैर्लेपनैरङ्गली मुद्रिकालङ्कृतां स्थापयन् सर्वतः । वस्त्रकोशावृतार्धाननो चौरवत् लुट्यति स्मैष किं शान्तिरत्नं विभोः ॥३॥ पुष्पमालां विशालां गले रोपयन् पञ्चवर्णाञ्चितां प्रीतपञ्चेन्द्रियः । स्पर्शनोच्चारणप्राणनेत्रश्रुतिष्वर्हतामस्तितामेकतारोऽन्वभूत् ॥४॥ स्वर्णरत्नाङ्कितस्थालिकास्थापितदीपकेनार्हतां लोकयन् केवलम् । प्रार्थयत्युत्तमस्नेहवागीश्वराद्
आत्मनोऽवर्णितां लोकनामात्मना ॥५॥ उर्ध्वगत्योच्चतामाप्तुकामामिव धूमरेखां दधानेन धूपेन सः । सौरभोन्मादिना सिद्धशिलागतानात्मनः प्रेषयत्युद्धरां पूजनाम् ॥६॥
११२
श्रीमाणिभद्रमहाकाव्यम् ७