________________
यतनयाऽर्चनकारिणि हिंस्त्रता न खलु कूपनिदर्शनतो मता । शुभरसाद् ह्रियते कृतिसम्भवोऽ घविसरो हरिणा हरिणादिवत् ॥३१॥
जितबृहस्पतिरस्ति धिया भवान् मम वचोरह आकलयोत्तमम् । परिहरोन्मतमादृतसन्मतो जिनवरं नवरं व्रज पूजय ॥३२॥
गुरुनिरुक्तमवेत्य धनीश्वरः सकलसंशयमुक्तिमवाप्तवान् । प्रकृतिना कुरुतेऽत्र जगत्यपि ननु विभातविभा तमसां हतिम् ॥३३।।
स निरुवाच निशम्य वचस्तव हृदयमाग्रहबन्धनमत्यजत् । विकलबुद्धिरहो सततं मुधा सुगुणकार्षमकार्षमहं मदम् ॥३४।।
सदयमातृमनःपरितापनो गृहवतीशुभवाक्यविरोधनः । समभवं भवमार्गविवर्धनः सकलहा कलहायितमानसः ॥३५॥
अकरवं करवंशकवह्निना मुनिमुखज्वलनं पितृकानने । अहमनन्ततमस्स्वनुलोपितः नियतिना यतिनायक ! वञ्चितः ॥३६॥
१०६
श्रीमाणिभद्रमहाकाव्यम् ६