________________
भवति देशनयाऽपि च दर्शनाद् भगवतो भविनां कृतकृत्यता । शिवगतौ गतवत्यधिनायके भवति तेन विनाऽथ विनाथता ॥२५।।
सकलशास्त्रदलं परमार्थवाग लसति तीर्थकृतामिव देशना । किमु भवेत् खलु तैरपि साधुभिः विरचितैरचितैस्तु गृहस्थितैः ॥२६॥
विशदमागमसूत्रमनेकशः श्रुणु पिपासुतयाऽसुदयावशः । द्रुपदजाऽर्चनडम्बरकारिणी निगदिताऽगदिताऽशुभनाशतः ॥२७।।
विषयविक्रियया क्रियया भवे दहति देहयुगात्मसुखं क्षणाद् । जिनपमूर्तिसमर्हणतुष्टयस्त्वविषयान् विषयानिह तन्वते ॥२८॥
प्रभुसरूपतया प्रभुबिम्बत: प्रभुसमत्वधिया प्रभुदर्शनाद् । परिगलन्ममता-मद-मत्सरो भवति काममकाममतिर्जनः ॥२९॥
प्रकटदर्शनमिष्टकृदीशितुः कुशलपुण्यसमागमकारणम् । तदिव मूर्तिनिभालनतो ननु गुणविशाल ! विशा लभते सुखम् ॥३०॥
१०४
श्रीमाणिभद्रमहाकाव्यम् ६