________________
तव समक्षमणुक्षमताबलाद् यदपि वच्मि तदस्ति समर्पणम् । त्वयि कुतर्कमुमुक्षुतयाऽऽश्रितः कथमहंयुमहं युनजानि तम् ॥१९॥
गुणिजनोऽर्हति नार्हति पूजनां जल-वनस्पति-पुष्पविराधिकाम् । अवधमार्गमतेरिह जीवितव्रजहतिं जहति श्रमणा अपि ॥२०॥
सततजीवविबाधनमर्चने रसवतीरचनेष्विव सम्भवेत् । इति सदागमबोधपुरस्कृते भवति तीव्रतरा व्रतरागिता ॥२१॥
मम मनो यमपञ्चकपालनैरभयदानमनुत्तरमाधृते । भगवदर्चनतो विरतेऽधुना विगतसङ्गर ! सङ्गरसि त्वयि ॥२२॥
मम वचो कलयन्नकलं भवान् ध्रुवमभूद् विषकण्ठसहोदरः । मयि करोतु कृपाकमलालय ! हृदयदेव ! यदेव तवेप्सितम् ॥२३।।
इति वदत्यमुमाह गुरुः शृणु न कथया कथयानि यथेच्छया । यदपि वच्मि तदस्ति निदेशितं भगवताऽङ्गवता निजपर्षदि ॥२४॥
१०२
श्रीमाणिभद्रमहाकाव्यम् ६