________________
प्रबलदोषसमादरणोद्यते निरनुविद्धमनस्यनुतापतः । न किल दातुमलं गुरुरुत्तमां कुशलवागलवागसि सन्मतिम् ॥७।।
इति हृदि स्थितशास्त्रजलोदधिप्रथितवाक्यतरङ्गसहस्त्रवान् । करुणयाऽरुणयाऽनुगतोऽवहद् व्युपरमं परमङ्गलवाञ्छुकः ॥८॥
अथ निशम्य महामुनिदेशनां निजकपातकसंस्मृतिविह्वलः । विहितपापसमूहनिवारणेऽ मितरसोऽतरसोत्थितवानसौ ॥९॥
प्रणतमौलिरयं हि कराञ्जलिविहितभालतलस्सविधे गुरोः । किमु किमाह न सन्ततवाहिनाऽ धनमदो नमदोष्ठगताश्रुणा ॥१०॥
अनुपलक्षितया व्यथयाऽऽकुलं तमवलोक्य गुरुस्समप्रश्नयत् । सुकुल ! तापभरः कतमो हृदि गुणवसन्त ! वसन् तव बाधते ॥११॥
भवति दुःस्थितिभिर्यदि शोचनं भगवदहणमाचर तद् रयाद् । तव सुधारससोदरगीतिकाश्रवणकिन्नर ! किन्न रतिः प्रभौ ? ॥१२॥
श्रीमाणिभद्रमहाकाव्यम् ६