________________
स्वपञ्चाङ्गलीस्पृष्टकर्णोऽस्थिरासुः स्वकार्येण मूढोऽधिरूढो व्यथायाम् । जगादाऽक्षरन्यासवन्ध्यं कथञ्चिद् मुखश्यामलो दग्धवज्जिह्वयाऽऽर्तः ॥३१॥
बुवन्निभ्यराडुत्तराभावतोऽयं वचोव्यर्थतां ज्ञातवान् पापतप्तः । चिताङ्गारवद् वाक् शशाम स्वयं हि स तस्थौ शवः किं श्वसन् चित्तशून्यः ॥३२॥
पतत्तारकान्येव पश्यन् स्वनेत्रस्रवबिन्दुतुल्यान्यगण्यानि खेऽसौ । स्वपुण्यानि नष्टानि जानन्ननाशः स्वबद्धान्यनिष्टानि गर्हन् प्रतस्थे ॥३३॥
मुहुस्साधुसन्तापकत्वं स्मरन् स्वं वलद्ग्रीवया भालयन् तं तमस्याम् । मुने तितो वाऽघसङ्घातभीतेः स धावन्निवायातवानात्मगेहे ॥३४।।
तमने तमङ्गेषु वातेन तापो ऽभवत्तीवचिन्तासितीभूतकेशम् । निजाक्ष्णोः समक्षं ज्वलन्तं यतास्यं मुहुद्देश्यमानं न माष्टुं शशाक ॥३५॥
शयानः करं ताडयन् मस्तकेन शिरस्स्फालयन् पार्श्वदण्डेऽविचारम् । न निद्रामवापापि पापित्वपङ्क कलङ्काङ्कितात्मानमेयात् कुतः सा ॥३६।।
श्रीमाणिभद्रमहाकाव्यम् ५