________________
मुनेः श्वासगत्या चलन्ती हविर्भुकशिखामीक्षमाणोऽन्धदृष्टिः द्रुतं सः । निरातङ्कमास्योद्गकेशान् विविक्तान् तया हन्त पस्पर्श तस्यैव दुष्टः ॥२५॥
चकम्पेऽग्निरेतन्महापातकेन समग्राशितां निन्दितुं किं स्वकीयाम् । स्वभावाद् यतः कूर्चरोमप्रसारिगतैरिष्टनाशङ्करोऽशङ्करोऽभूत् ॥२६॥
क्षणादेव भस्मीभवत्कर्चकेशोऽ ग्निरेखाविनिर्दह्यमानत्वगेषः । स्मशानस्य साङ्गत्यतो देहजाड्ये स्थितोऽध्यासयन्नेव निर्जीवतुल्यः ॥२७॥
तमोबद्धरात्रौ यथा मेघराजो वहन् विद्युतं गर्जना आतनोति । मुखस्पर्शिनी साधुरुल्कां दधानो रवं नैव तद्वच्चकारात्ममग्नः ॥२८॥
समानक्रियायां समानस्थलेऽपि विभिन्नस्वभावाद्विभिन्नोऽभिबोधः । यतो ज्वालया कर्मनाशस्य साधोः स्मृतिः श्रेष्ठिनो विस्मृतिः कर्मबन्धे ॥२९॥
प्रकोपं भयाति व्यथाबाधमिच्छन् प्रशान्ति विभीति समत्वं निरीक्ष्य । मुनेस्तेजसा दग्धपूर्वग्रहोऽसौ शिखां नाशयन्नश्रुनेत्रो ननाम ॥३०॥
श्रीमाणिभद्रमहाकाव्यम् ५