SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् 82828ksa 8282828282828282828282828282 'किं' कथम् ? 'पूर्वं' सङ्गमभवे । त्वया । 'दानेऽपि' मुनये क्षीरदानेऽपि । 'दीर्घसूत्रिता' चिरक्रियता । 'न सूत्रिता' न विहिता ॥ २७ ॥ क्षमाधुर्यो समाधुर्यो, सम्प्रधार्य तदूर्जितम् । नन्तुं प्रयातौ श्रीवीरं, पुष्पदन्ताविवोदितौ ॥ २८ ॥ 'तत् तस्मात् । 'ऊजितं' बलिष्ठं अनशनविषयकं सङ्कल्पम् । 'सम्प्रधार्य' अवधार्य। 'समाधयौं' मैत्रीमाधुर्यसहितौ। 'क्षमाधुर्यो' शमधुरीणौ । 'उदितो पुष्पदन्ताविव' उदितौ सूर्य-चन्द्रौ इव । शालि-धन्यौ श्रीवीरं नन्तुं प्रयातौ ॥ २८ ॥ व्यधत्तां श्रीमहावीरं, प्रणम्याराधनाविधिम् । शमिनी संयमोतुङ्गप्रासादाने ध्वजं किल ॥ २९ ॥ श्रीमहावीरं प्रणम्य । 'संयमोत्तुङ्गप्रासादाने' संयमा:-चारित्रं तदेव उत्तुङ्गः-उच्च: प्रासादः तस्याग्रे । 'ध्वजं' पताकातुल्यम् । किल:-निश्चयार्थः । 'आराधनाविधि' अन्तिमाराधनाविधिम् । 'शमिनौ' शमवन्तौ मुनी । तौ व्यधत्तांकुर्वतः स्म ॥ २९ ॥ मोहध्वंसिशुभध्यानयोधस्कन्धाविवाथ तौ । सुवर्णपुष्पैः श्रीवीरः, स्वयं स्वामी व्यभूषयत् ॥ ३० ॥ स्वयं श्रीवीर: स्वामी । 'मोहध्वंसिशुभध्यानयोधस्कन्धाविव' मोहनाशककुशलध्याने मुख्यवीरौ इव । 'तौ' इदं कर्मपदम् । 'सुवर्णपुष्पैः' शोभनाः वर्णाः अक्षराणि यत्र तत् सुवर्णं-प्रशंसनं तद्रूपैः पुष्पैः । युद्ध पक्षे-कनककुसुमैः । 'व्यभूषयत्' विभूषितवान् । यथा युद्धात् प्राग् वीराः स्वर्णपुष्पैः अभिनन्द्यन्ते तथा श्रीवीरेण शालिधन्यौ प्रशंसात्मकवचनैः उपबृंहितौ अभिनन्दितौ इत्यर्थः ॥ ३० ॥ वत्सौ स्वस्थौ युवां धन्यौ, कृतपुण्यौ सलक्षणौ । सुलब्धं युवयोर्जन्म, साधु संयमजीवितम् ॥ ३१ ॥ satasa8RSR88RSONASRSASASASRSANASNA ॥३०६॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy