________________
पक्रमः
शालिभद्र महाकाव्यम्
SASApsa 8282828282828282828282828282
धन्य:-मुनिः । प्रमोदात् अभ्यधात्-उवाच । 'सत्त्वसार' हे सत्त्वनिष्ठ शालिमुने । त्वया 'शालिः (धान्यं) क्वापि न खण्ड्यते-न दल्यते' इत्येवंविधा 'लौकिकी' लोके प्रचलिता । 'श्रुतिः' वार्ता । सत्या कृता ॥ २३ ॥
प्राग्मानस्य न केनापि, संयमस्य परीषहैः । नोपसर्गश्च भावारिप्रहारैस्ते न खण्डना ॥ २४ ॥
शालिः कथं न खण्ड्यते ? इति दर्शयन्नाह-'प्राग्' पूर्वं गृहावासे । 'मानस्य' गौरवस्य । न केनाऽपि खण्डना जाता । अधुना ते-तव संयमस्य । 'भावारिप्रहारैः' रागाद्यान्तरशत्रुघातैः परीषहै: उपसर्गः खण्डना न जाता ॥ २४ ॥
श्रृङ्गारोदारमन्दारमालाभिः किल खेलनात् । अभिमानः परिम्लानिमानशे मानसे न ते ॥ २५ ॥
'श्रृङ्गारोदारमन्दारमालाभिः' श्रृङ्गाराय उदारमन्दारमालाभिः उत्तमकल्पद्रुस्रग्भिः । किल: निश्चयार्थः । 'खेलनात्' कीडनात् । 'ते' तव । 'मानसे' मनसि मानसरसि वा । 'अभिमानः' गौरवम् । 'परिम्लानिं' परित: ग्लानिम् । 'न आनशे' न प्राप्त: ॥ २५ ॥
स्वः श्रीस्त्वयाऽल्पकालीना, प्रविशन्ती गृहं मुहुः । निरस्ता स्वर्णनिर्माल्यव्याजतः शाश्वतश्रिये ॥ २६ ॥
'स्वर्णनिर्माल्यव्याजतः' सुवर्णनिर्माल्यस्य व्याजत:-मिषात् । 'गृहं' सौधम् । 'मुहुः' वारं वारम् । प्रविशन्ती । अल्पकालीना-आशाश्वता । स्वः श्रीः स्वर्गलक्ष्मीः । 'शाश्वतश्रिये' मुक्तिश्रीकृते । त्वया निरस्ता-दूरे कृता ॥ २६ ॥
तद् विलम्बः प्रलम्ब: किं, मर्मवेधी कलम्बवत् । त्वया पूर्वं न दानेऽपि, सूत्रिता दीर्घसूत्रिता ॥ २७ ॥ 'तत्' तस्मात् । 'कलम्बवत्' बाणवत् । 'मर्मवेधी' मर्मभेदी । 'प्रलम्बः' प्रकृष्टः लम्बः प्रलम्बः दीर्घः । विलम्बः ।
82828282828282828282828282828282888
॥३०५ ॥