________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
'ध्रुवं' नूनम् । 'प्रशस्यायाः ' उत्तमायाः । 'यस्याः ' पूर्वमातुः धन्याया: । 'सत्त्वसाहाय्य साहसैः' परमान्नभक्षणावसरे दधिदानावसरे च एतल्लक्षणैः गुणैः । अहं इयतीं भूमिं कक्षाम् । अश्वपक्षे भुवम् । प्राप्तः । 'क्षेत्रगुणैरिव' रेणुरहितादिभूमिगुणैरिव । यथा अश्वः रेणुरहितादिभूभागे क्षिप्रं गच्छति तथा अहमपि धन्यामातुः सत्त्वसाहाय्यसाहसैः गुणैः इयतीं कक्षां प्राप्तोऽस्मीत्यर्थः ॥ १२ ॥ 'सा' धन्या माता अधुनाऽपि तद्रूपैव तद्विधा एव । 'दुःस्था' दरिद्रा । 'जन्मान्तरस्थिते:' जन्मान्तरं अन्यजन्म तस्मिन् स्थितिः यस्य तस्य मम । 'वात्सल्यामृततल्लिका' वात्सल्यामृतस्य तल्लिकातटाकिका सा। पारणे कारणं जज्ञे जाता ॥ १३ ॥
अपाङ्गाङ्गणकोणस्थं, शोणभागमिवाहता । भद्रादृष्टिरिहाद्राक्षीत्, न मां परिचितं सदा ॥ १४ ॥
'अपाङ्गाङ्गणकोणस्थं' अपाङ्गाङ्गणस्य, अपाङ्गं भिक्षाचरोचितत्वात् । नेत्रपक्षे- नेत्रप्रातरूपाङ्गणस्य, कोणे विभागे स्थितम्। 'सदा परिचितं' नित्यं सुज्ञातम् । नेत्रपक्षे सदा सन्निहितत्वात् परिचितम् । 'शोणभागमिव' रक्तांशमिव । मां न अद्राक्षीत् न पश्यति स्म । यथा दृष्टिः स्वकोणस्थितमपि रक्तांशमपि न पश्यति तथा अहमपि स्वाङ्गणस्थितोऽपि भद्रया न दृष्टः इति भावः ॥ १४ ॥
न पूर्वया न परया, मम मात्राशयाऽद्य तत् । कल्याणाद्रिं जिगमिषोः, कार्यमुत्तरकाष्ठया ॥ १५ ॥
'तत्' तस्मात् । ‘कल्याणाद्रि' शिवगिरिं मुक्तिमित्यर्थः । पक्षे कनकाचलं मेरुम् । 'जिगमिषो:' गमनेच्छो: । मम अद्य । न पूर्वया मात्रा - न पूर्वभवमात्रा धन्यया । पक्षे आशया पूर्वदिशा । 'न परया मात्रा' न पाश्चात्यया भद्रया जनन्या । पक्षे आशया पश्चिमया दिशा । 'कार्य' अपेक्षा । किन्तु । 'उत्तरकाष्ठया' उत्तरक्रियया अनशनक्रियया । पक्षे
Interns
सप्तमः प्रक्रमः
॥ ३०२ ॥