SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 तदा ग्रामादपि बहिश्चर:-शालिग्रामादपि बहि: पर्यटक- । 'पशुदासः' गोपालः । अभूवम् । इदानीं तु ललितेश्वरःमहेभ्यः अहम् । भूपं-श्रेणिकम् । 'पण्यं' क्रयाणकम् । 'अज्ञासिषं' ज्ञातवान् ॥ ८ ॥ कृपालुभ्यः प्ररुदिता, परान्नं प्रापयत् प्रसूः । पूर्व प्रमुदितस्तेन, प्राप्तराज्य इवाभवम् ॥ ९ ॥ भवेऽस्मिन् वैभवाभोगानुभावानुभवं निजम् । परस्वाम्यभिधानेन, मेनेऽहं व्याघ्रबालितम् ॥ १० ॥ 'पूर्वं' प्राक् । 'प्ररुदिता' प्रकर्षेण रुदिता माता धन्या । 'कृपालुभ्यः' दयालुभ्यः प्रातिवेश्मिकेभ्यः महिलाजनेभ्यः । 'परान्नं' क्षीरम् । 'प्रापयत्' प्रापयति स्म । तेन' परमान्नेन । 'प्रमुदितः' प्रहृष्टः सन्नहम् । 'प्राप्तराज्य इव' समासादितसाम्राज्य इव । अभवम् ॥ ९॥ अस्मिन् भवे निजम् । 'वैभवाभोगानुभावानुभवं' वैभवानां आभोग: विस्तार तस्य अनुभाव:प्रभाव: तस्य अनुभवम् । 'परस्वाम्यभिधानेन' पर: स्वामी इति अभिधानेन कथनेन । 'व्याघ्रबालितं' व्याघ्रबालाचरितम्। 'अहं मेने' मन्ये स्म ॥ १० ॥ अभविष्यत्तदा जन्मनाशो मे ग्रामवासिनः । मदीयभाग्यैर्नायास्यद्, यद्यानुपदिको मुनिः ॥ ११ ॥ तदा मे ग्रामवासिनः जन्मनाश:-मृत्युः अभविष्यत् यदि मदीयभाग्यैः आनुपदिकः-पृष्ठलग्न: मुनिः न आयास्यत् 828282828282828282828282828282828282 ध्रुवं यस्याः प्रशस्यायाः, सत्त्वसाहाय्यसाहसैः । प्राप्तोऽहमियती भूमिमश्वः क्षेत्रगुणैरिव ॥ १२ ॥ सा तद्रूपैव दुःस्था च, मम जन्मान्तरस्थितेः । पारणे कारणं जज्ञे, वात्सल्यामृततल्लिका ॥ १३ ॥ ॥३०१॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy