________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
'पवनाभ्याससुस्थात्मा' पवनाभ्यासैः सुस्थः स्वस्थः आत्मा यस्य सः । हनूमत्पक्षे-पवनाख्यपितुः अभ्यासं समीपं तेन सुस्थः आत्मा यस्य सः । त्रेताधिक- बलोदयः' द्विजसत्काग्नित्रयस्य ' त्रेता' इति नाम, तस्मादग्नित्रयात् अधिकं बलं तस्य उदयः यस्य सः । पक्षे त्रेता युगविशेषाभिधानं तत्र अधिक: बलोदयः यस्य सः । ' अक्षप्राणापहारी' इन्द्रियबलापहारी । पक्षे-अक्षः रावणपुत्रः तस्य प्राणापहारी । चः समुच्चये । तत्तपः क्रमः ' तयोः तपःक्रमः तपःपराक्रमः । 'हनूमान्' हनूमत्तुल्यः इत्यर्थः ॥ १०६ ॥
अकुण्ठोत्कण्ठया सिद्धेरिव क्षामवपुष्टमौ । मुनी मोहेभफालायां, सिंहो सङ्कुचिताविव ॥ १०७ ॥
'सिद्धेः' मोक्षस्य । 'अकुण्ठोत्कण्ठया इव' अकुण्ठया अरुद्धया उत्कण्ठया औत्सुक्येन इव । 'क्षामवपुष्टमी' क्षामं - कृशं वपुः क्षामवपुः, अतिशयेन क्षामवपुः ययोः तौ। 'मुनी' शालिधन्यौ । 'मोहेभफालायां' मोहमतङ्गजोपरि फालायां आक्रमणे । ‘सङ्कुचितौ' संवलितगात्रौ । 'सिंहौ इव' पञ्चाननौ इव भातः ॥ १०७ ॥
मलाविलौ बहिष्कीर्णपापपङ्कौ विभावितौ । संयमश्रीपरीरम्भासक्तकस्तुरिकाङ्कितौ ॥ १०८ ॥
'मलाविलौ' मलेन आविलौ मलिनौ । 'बहिष्कीर्णपापपङ्का' बहिः कीर्णः क्षिप्त: पापपङ्कः याभ्यां तौ । 'संयमश्रीपरीरम्भासक्तकस्तूरिकाङ्कितौ संयमश्रियाः चारित्रलक्ष्म्याः परीरम्भेण - आलिङ्गनेन आसक्ता लग्ना कस्तूरिकामृगमदः तया अङ्कितौ लाञ्छितौ । 'विभावितौ' विभाव्येते स्म । अयं भावः - तौ मलिनौ कथं जातौ ? कविरुत्प्रेक्षतेचारित्रलक्ष्म्या: आलिङ्गनेन लग्नया कस्तूरिकया (कस्तूरिकायाः कृष्णवर्णत्वात्) तौ मुनी अपि मलिनौ भातः ॥ १०८ ॥ स्मरचौरभयाभावाद्, गन्तव्याल्पतयेव वा । मन्थरं पथि निर्ग्रन्थौ, चार चेरतुरीर्यया ॥ १०९ ॥
k32
षष्ठः
प्रक्रमः
॥ २६९ ॥