________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ततो भद्रमहाभद्रसर्वतोभद्रसंज्ञिताः । यवमध्या वज्रमध्याः, प्रतिमा आरराधतुः ॥ १०३ ॥
'ततः' तत्पश्चात् । 'भद्र-महाभद्र-सर्वतोभद्रसंज्ञिताः' भद्रं महाभद्रं सर्वतोभद्रं इति संज्ञा:-नामानि यासां ताः । 'यवमध्या' 'वज्रमध्या' इत्यपि प्रतिमाविशेषाभिधाने । प्रतिमाः । 'आरराधतुः' आराधयतः स्म ॥ १०३ ॥
उग्रादरात्तपस्याऽथ, तावनाशंसिता भृशम् । हृतमांसासृजौ चक्रे, गौरी भृङ्गिरिटिं यथा ॥ १०४ ॥
अथ । 'अनाशंसिता' निष्कामा । 'तपस्या' तपः, इदं कर्तृपदम् । 'उग्रादरात्' उग्रस्य तीव्रतपसः आदरात् । गौरीपक्षे शङ्करादरात् । 'श्रीकण्ठोग्रौ धूर्जटिः' इति हैम्याम् । 'तौ' शालिधन्यौ । 'भृशं' अत्यर्थम् । 'हृतमांसासृजौ' क्षीणपलरुधिरौ । 'चक्रे' कृतवती । यथा गौरी-पार्वती । 'भृङ्गिरिटिं' शङ्करगणं चक्रे तथा । महादेवस्नेहवतीगौरीप्रेरणया अन्धकासुरो हि रुद्रेण वर्षसहस्राणि शूलं प्रोतो धृतो नाड्यास्थिशेषशरीरश्च दासत्वं प्रपन्नो मुक्तो भृङ्गिगणोऽभूदिति प्रसिद्धिः ॥ १०४ ॥
सदा निष्कोषसम्बन्धं, निर्व्यापार सुनिर्मलम् । अहिंस्रं तत्तपस्तीवं, खड्गधाराधिकं बभौ ॥ १०५ ॥
'सदा निष्कोषसम्बन्धं' नित्यं धननिधिसङ्गहीनम् । खड्गपक्षे युद्धमन्तरेण प्राय: खड्गः कोषेण खड्गपिधानकेन सहितमेव स्यात् । 'निर्व्यापारं' सर्वविरतित्वात् सावधव्यापाररहितम् । खड्ग व्याप्रियते तदैव तेजस्वि, नान्यथा, तपस्तु निर्व्यापारमेव। 'सुनिर्मलं' अत्यमलम् । हिंसातः खड्गे मलिनतैव । 'अहिंस्रं' अहिंसकम् । खड्गं हिंसकं तपस्तु |
अहिंसकमेव । 'तीव्र' तीक्ष्णम् । 'खड्गधाराधिकं' असिधारातः अपि अधिकम् । 'तत्तपः' तयोः शालि-धन्ययोः तपः । 'बभौ' भाति स्म ॥ १०५ ॥
पवनाभ्याससुस्थात्मा, त्रेताऽधिकबलोदयः । अक्षप्राणापहारी च, हनूमांस्तत्तपःक्रमः ॥ १०६ ॥
ARRARAUAYA8A82828282828282888
॥ २६८ ॥