________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलक्ष्यश्चाप्रमेयश्च ध्यानलक्ष्यो निरंजनः ॐकाराकृतिरव्यक्तो, व्यक्तरूपस्रयीमयः; ब्रह्मद्वयप्रकाशात्मा, निर्भयः परमाक्षरं दिव्यतेजोमयः शान्तः, परमामृतमयोऽच्युतः;
आद्योऽनाद्यः परेशान, परमेष्टी परःपुमान् शुद्धस्फटिकसंकाशः, स्वयंभूः परमाच्युतः व्योमाकारस्वरूपश्च, लोकाऽलोकावभासकः ज्ञानात्मा परमानन्दः, प्राणारूढो मनःस्थितिः; मनःसाध्यो मनोध्येयो, मनोदृश्य परापरः सर्वतीर्थमयो नित्यः सर्वदेवमयः प्रभुः भगवान् सर्वतत्त्वेशः, शिवश्रीसौख्यदायकः इति श्रीपार्श्वनाथस्य, सर्वज्ञस्य जगद्गुरोः, दिव्यमष्टोत्तरं-नाम- शतमत्र प्रकीर्त्तितम् पवित्रं परमं ध्येयं, परमानन्ददायकम्; भुक्तिमुक्तिप्रदं नित्यं पठतां मङ्गलप्रदम् श्रीमत्परमकल्याण-सिद्धिदः श्रेयसेऽस्तु वः पार्श्वनाथजिनः श्रीमान्, भगवान् परमः शिवः धरणेन्द्र - फणच्छत्रा - लंकृतो वः श्रियं प्रभुः
४७
For Private And Personal Use Only
९
१०
११
१२
१३
१४
१५
१६
१७