________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दद्यात्पद्मावतीदेव्या, समधिष्ठितशासनः ध्यायेत्कमलमध्यस्थं श्रीपार्श्वजगदीश्वरम्; ॐ ह्रीं श्रीं अर्ह समायुक्तं, केवलज्ञानभास्करम् पद्मावत्यान्वितं वामे, धरणेन्द्रेण दक्षिणे; परितोऽष्टदलस्थेन, मन्त्रराजेन संयुतम् अष्टपत्रस्थितैः पंचनमस्कारैस्तथा त्रिभिः; ज्ञानाद्यैर्वेष्टितं नाथं, धर्मार्थकाममोक्षदम् शतषोडशदलारूढं, विद्यादेवीभिरन्वितम्, चतुर्विंशतिपत्रस्थं, जिनं मातृसमावृतम् मायावेष्ट्यं त्रयाग्रस्थं, क्रौंकारसहितं प्रभुम्; नवग्रहावृतं देवं, दिक्पालैर्दशभिर्वृतम् । चतुष्कोणेषु मन्त्राद्यैश्चतुर्बीजान्वितैर्जिनैः; चतुरष्टदशद्वीति, द्विधांकसंज्ञकैर्युतम् दिक्षु क्षकारयुक्तेन, विदिक्षु लांकितेन च; चतुरस्रेण वज्रांक, क्षितितत्त्वे प्रतिष्ठितम् श्री पार्श्वनाथमित्येवं, या समाराधयेज्जिनम् तं सर्वपापनिर्मुक्तं, भजते श्री शुभप्रदा जिनेशः पूजितो भक्त्या, संस्तुतः प्रस्तुतोऽथवा;
४८
For Private And Personal Use Only