________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमंत्राधिराजपार्श्वस्तोत्र श्रीपार्श्वः पातु वो नित्यं, जिनः परमशंकर; नाथः परमशक्तिश्च, शरण्यः सर्वकामदः सर्व विघ्नहरः स्वामी, सर्वसिद्धिप्रदायकः; सर्वसत्त्वहितो योगी, श्रीकरः परमार्थदः देवदेवः स्वयंसिद्ध, श्चिदानन्दमयः शिवः, परमात्मा परब्रह्मा, परमः परमेश्वरः जगन्नाथः सुरज्येष्ठो, भूतेशः पुरुषोत्तमः; सुरेन्द्रो नित्यधर्मश्च, श्रीनिवासः शुभार्णवः सर्वज्ञः सर्वदेवेशः, सर्वदः सर्वगोत्तमः; सर्वात्मा सर्वदर्शी च, सर्वव्यापी जगद्गुरुः तत्त्वमूर्तिः परादित्यः, परब्रह्मप्रकाशकः, परमन्दुः परप्राणः, परमामृतसिद्धिदः अजः सनातनः शम्भु-रीश्वरश्च सदाशिवः; विश्वेश्वरः प्रमोदात्मा, क्षेत्राधीशः शुभप्रदः साकारश्च निराकारः सकलो निष्कलोऽव्ययः; निर्ममो निर्विकारश्च निर्विकल्पो निरामयः अमरश्चाजरोऽनन्त, एकोऽनन्तः शिवात्मकः
र रस
०
०
४६
For Private And Personal Use Only