________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैधाभूतविषापहं विषहरं श्रेयःप्रभावाश्रयम्, सोल्लासं वसहांकितं जिनफुलिंगानंदनं देहिनाम् ह्रीं श्रींकारवरं नमोऽक्षरपरं, ध्यायन्ति ये योगिनो, हृत्पद्मे विनिवेश्य पार्श्वमधिपं, चिंतामणीसंज्ञकम् । भाले वामभुजे च नाभिकरयो-भूयो भुजे दक्षिणे, पश्चादष्टदलेषु ते शिवपदं द्वित्रैर्भवैर्यान्त्यहो (र्भान्त्यहो)८ नो रोगा नैव शोका न कलहकलना नारिमारिप्रचाराः, नैवाधिर्नासमाधिर्न च दुरदुरिते, दुष्टदारिद्रयता नो । नो शाकिन्यो ग्रहा नो हरिकरिगणा, व्यालवैतालजाला, जायन्ते पार्श्वचिन्तामणिनतिवशतः, प्राणिनां भक्तिभाजाम् गीर्वाणद्रुमधेनुकुंभमणयस्तस्यांऽगणे रंगिणो, देवा दानवमानवा सविनयं, तस्मै हितध्यायिनः । लक्ष्मीस्तस्य वशावशैव गुणीनां, ब्रह्माण्डसंस्थायिनी, श्रीचिन्तामणिपार्श्वनाथमनिशं, संस्तौति यो ध्यायते १० इति जिनपतिपार्श्वः पार्श्वपाख्यियक्षः, प्रदलितदुरितौघः प्रीणितप्राणिसार्थः । त्रिभुवनजनवाञ्छा दानचिंतामणीकः, शिवपदतरुबीजं बोधिबीजं ददातु
४५
For Private And Personal Use Only