________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्यातिशायि-महिमासि मुनीन्द्र! लोके. नित्योदयं दलित-मोहमहान्धकारं, गम्यं न राहु-वदनस्य न वारिदानाम्; विभ्राजते तव मुखाब्जमनल्पकान्ति, विद्योतयज्जगदपूर्व-शशांक-बिम्बम्. किं शर्वरीषु शशिनानि विवस्वता वा?, युष्मन्मुखेन्दु दलितेषु तमस्सु नाथ!, निष्पन्न-शालिवनशालिनि जीव लोके, कार्यं कियज्जलधरैर्जलभार-नः? ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरि-हरादिषु नायकेषु; तेजः स्फुरन्मणिषु याति यथा महत्त्वं, नैवं तुं काच-शकले किरणाकुलेऽपि. मन्ये वरं हरिहरादय एंव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति; किं वीक्षितेन भवता भुवि येन नाऽन्यः; कश्चिन्मनो हरति नाथ! भवान्तरेऽपि. स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्,
२१
For Private And Personal Use Only