________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नान्या सुतं त्वदुपमं जननी प्रसूता; सर्वा दिशो दधति भानि सहस्ररश्मिं, प्राच्येव दिग्जनयति स्फुरदंशुजालम्. त्वामामनन्ति मुनयः परमं पुमांसमादित्यवर्णममलं तमसः परस्तात्; त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु, नान्यः शिवः शिवपदस्य मुनीन्द्र! पन्थाः. त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं, ब्रह्माणमीश्वरमनन्तमनंगकेतुम्; योगीश्वरं विदितयोगमनेकमेकं, ज्ञानस्वरूपममलं प्रवदन्ति संतः. बुद्धस्त्वमेव विबुधार्चित-बुद्धिबोधात्, त्वं शंकरोऽसि भुवन-त्रय-शंकरत्वात्, धाताऽसि धीर! शिवमार्ग-विधेर्विधानात्, व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोऽसि. तुभ्यं नमस्त्रिभुवनार्ति-हराय नाथ!, तुभ्यं नमः क्षितितलामल-भूषणाय!; तुभ्यं नमस्त्रिजगतः परमेश्वराय!;
For Private And Personal Use Only