________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निःशेषनिर्जित-जगत्रितयोपमानम्?; बिम्बं कलंक-मलिनं क्व निशाकरस्य?, यद्वासरे भवति पाण्डु-पलाश-कल्पम्. संपूर्ण-मण्डल-शशांक-कला-कलापशुभ्रा गुणास्त्रिभुवनं तव लंघयन्ति; ये संश्रितास्त्रिजगदीश्वर नाथमेकं, कस्तान्निवारयति संचरतो यथेष्टम्? चित्रं किमत्र यदि ते त्रिदशांगनाभिनीतं मनागपि मनो न विकारमार्गम्?; कल्पान्त-काल-मरुता चलिताचलेन, किं मंदराद्रि-शिखरं चलितं कदाचित्? निधूम-वर्तिपवर्जित-तैल-पूरः, कृत्स्नं जगत्रयमिदं प्रकटीकरोषि; गम्यो न जातु मरुतां चलिताचलानां, दीपोऽपरस्त्वमसि नाथ! जगत्प्रकाशः नास्तं कदाचिदुपयासि न राहुगम्यः, स्पष्टीकरोषि सहसा युगपज्जगन्ति; नाम्भोधरोदरनिरुद्ध-महाप्रभावः,
२०
For Private And Personal Use Only