________________
५४]
પતંજલિનાં યોગસૂત્રો
[५. १ सू. १८
ख्यातिस्तौष्टिकानां वैराग्यसंपन्नानाम् । स खल्वयं भवः प्रत्ययः कारणं यस्य निरोधसमाधेः स भवप्रत्ययः । तत्र तयोर्मध्य उपायप्रत्ययो योगिनां मोक्षमाणानां भवति । विशेषविधानेन शेषस्य मुमुक्षुसंबन्धं निषेधति । केषां तर्हि भवप्रत्यय इत्यत्र सूत्रेणोत्तरमाह-भवप्रत्ययो विदेहप्रकृतिलयानाम् । विदेहाश्च प्रकृतिलयाश्च तेषामित्यर्थः । तद्व्याचष्टे-विदेहानां देवानां भवप्रत्ययः । भूतेन्द्रियाणामन्यतममात्मत्वेन प्रतिपन्नास्तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमिन्द्रियेषु भूतेषु वा लीनाः संस्कारमात्रावशेषमनसः षाटकौशिकशरीररहिता विदेहाः । ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानुभवन्तः प्राप्नुवन्तो विदेहाः । अवृत्तिकत्वं च कैवल्येन सारूप्यं, साधिकारसंस्कारशेषता च वैरूप्यम् । संस्कारमात्रोपभोगेनेति क्वचित्पाठः । तस्यार्थः - संस्कारमात्रमेवोपभोगो यस्य न तु चित्तवृत्तिरित्यर्थः । प्राप्तावधयः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्त्यतिकामन्ति पुनरपि संसारे विशन्ति । तथा च वायप्रोक्तम्
___ "दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्णम्" इति । तथा प्रकृतिलयाश्चाव्यक्तमहदहंकारपञ्चतन्मात्रेष्वन्यतममात्मत्वेन प्रतिपन्नास्तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमव्यक्तादीनामन्यतमे लीनाः । साधिकारेऽचरितार्थे । एवं हि चरितार्थं चेतः स्याद्यदि विवेकख्यातिमपि जनयेदजनितसत्त्वपुरुषान्यताख्यातेस्तु चेतसोऽचरितार्थस्यास्ति साधिकारतेति । साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावत्र पुनरावर्ततेऽधिकारवशाच्चित्तमिति । प्रकृतिसाम्यमुपगतमप्यवधि प्राप्य पुनरपि प्रादुर्भवति ततो विविच्यते । यथा वर्षातिपाते मृद्भावमुपगतो मण्डूकदेहः पुनरम्भोदवारिधारावसेकान्मण्डूकदेहभावमनुभवतीति । तथा च वायुप्रोक्तम्
"सहस्रं त्वाभिमानिकाः । बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः ॥ पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ।
पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते ॥" इति । तदस्य पुनर्भवप्राप्तिहेतुतया हेयत्वं सिद्धम् ॥१९॥
સ્વીકાર અને અસ્વીકાર (ની સમજણ) માટે ઉપયોગી હોવાથી નિરોધ समाधिना गौ। मेहो “सपस्वयं विविधः...." वगैरेथा वि छ. मा समापि પ્રકારનો છે : ઉપાયથી મેળવાય એવો અને જન્મથી જ પ્રાપ્ત થતો. આગળ કહેવાનારા શ્રદ્ધા વગેરે ઉપાયો જેનું કારણ છે, એ નિરોધ સમાધિ ઉપાય પ્રત્યય છે. પ્રાણીઓ જેમાં જન્મે એ ભવ છે. અવિઘા, પાંચ મહાભૂતો, ઇન્દ્રિયો વગેરે વિકારો