________________
પતંજલિનાં યોગસૂત્રો
[पा. १ सू. १५
४४]
સ્વામી બનીને વિષયોને પોતાના વશમાં રાખવાની સ્થિતિને વૈરાગ્ય કહે
छे. १५
भाष्य
स्त्रियोऽन्नपानमैश्वर्यमिति दृष्टविषयवितृष्णस्य स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तावानुश्रविकविषये वितृष्णस्य दिव्यादिव्यविषयसंप्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसंख्यानबलादनाभोगात्मिका हेयोपादेयशून्या वशीकारसंज्ञा वैराग्यम् ॥१५॥
સ્ત્રીઓ, ભોજ્ય અને પેય પદાર્થો, ઐશ્વર્ય વગેરે જોયેલા, અને સ્વર્ગ, વિદેહપણું, પ્રકૃતિલય વગેરે વેદમાંથી સાંભળેલા વિષયોમાં રાગ કે તૃષ્ણા વિનાના, તેમજ દિવ્ય કે અદિવ્ય વિષયો પોતાની સમક્ષ ઉપસ્થિત થાય તો પણ જેનું ચિત્ત એમના દોષો જોતું હોય, એવા પુરુષમાં વિવેકવિચારના બળે, ભોગની ઇચ્છા ન થાય, વિષય ન્યાય કે સ્વીકાર્ય છે, એવો સંકલ્પ પણ ન થાય, એવી વિષયોને પોતાના વશમાં રાખવાની શક્તિ વૈરાગ્ય છે. ૧૫
तत्त्ववैशारदी
वैराग्यमाह-दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् । चेतनाचेतनेषु दृष्टविषयेषु वितृष्णतामाह - स्त्रिय इति । ऐश्वर्यमाधिपत्यम् । अनुश्रवो वेदस्ततोऽधिगता आनुश्रुविकाः स्वर्गादयः । तत्रापि वैतृष्ण्यमाह - स्वर्गेति । देहरहिता विदेहाः करणेषु लीनास्तेषां भावो वैदेह्यम् । अन्ये तु प्रकृतिमेवात्मानमभिमन्यमानाः प्रकृत्युपासका: प्रकृतौ साधिकारायामेव लीनास्तेषां भावः प्रकृतिलयत्वं तत्प्राप्तिविषये आनुश्रविकविषये वितृष्णस्य । आनुश्रविकविषये वितृष्णो हि स्वर्गादिप्राप्तिविषये वितृष्ण उच्यते । ननु यदि वैतृष्ण्यमात्रं वैराग्यं हन्त विषयाप्राप्तावपि तदस्तीति वैराग्यं स्यादित्यत आह दिव्यादिव्येति । न वैतृष्ण्यमात्रं वैराग्यमपि तु दिव्यादिव्यविषयसंप्रयोगेऽपि चित्तस्यानाभोगात्मिका । तामेव स्पष्टयति- हेयोपादेयशून्या । आसङ्गद्वेषरहितोपेक्षा बुद्धिर्वशीकारसंज्ञा । कुतः पुनरियमित्यत्राह - प्रसंख्यानबलादिति । तापत्रयपरीतता विषयाणां दोषस्तत्परिभावनया तत्साक्षात्कार: प्रसंख्यानं तद्बलादित्यर्थः । यतमानसंज्ञा, व्यतिरेकसंज्ञा, एकेन्द्रियसंज्ञा, वशीकारसंज्ञा चेति चतस्रः संज्ञा इत्यागमिनः । रागादयः खलु कषायाश्चित्तवर्तिनस्तैरिन्द्रियाणि यथास्वं विषयेषु प्रवर्तन्ते, तन्मा प्रवर्तिषतेन्द्रियाणि तत्तद्विषयेष्विति तत्परिपाचनायारम्भः प्रयत्नः सा यतमानसंज्ञा । तदारम्भे सति