SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ પા. ૧ સૂ૬,૭] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [૨૫ જેવી એક છેડે સળગતી વસ્તુ)નું વેગથી ભમવું અને તેજવર્તુળ દેખાવું વગેરે ભ્રમોનો એમાં સમાવેશ થતો નથી. એમ અહીં પણ પ્રમાણ વગેરે વૃત્તિઓનું કથન કરવા છતાં, એથી વધારે વૃત્તિઓ હોઈ શકે કે નહીં, એ શંકાનું નિવારણ થતું નથી. તેથી સૂત્રમાં “પાંચ પ્રકારની” એ શબ્દો જોડવા જોઈતા હતા. એનાથી આટલી જ વૃત્તિઓ છે, વધારે નહીં, એવો નિશ્ચય થઈ શકત. ૬ तत्र प्रमाणवृत्ति विभजन्सामान्यलक्षणमाह-प्रत्यक्षानुमानागमाः प्रमाणानि । अनधिगतत्त्वबोध: पौरुषेयो व्यवहारहेतुः प्रमा । तत्करणं प्रमाणम् । विभागवचनं च न्यूनाधिकसंख्याव्यवच्छेदार्थम् । तत्र सकलप्रमाणमूलत्वात्प्रथमतः प्रत्यक्षं लक्षयतिइन्द्रियेति । अर्थस्येति समारोपितत्वं निषेधति । तद्विषयेति बाह्यगोचरतया ज्ञानाकारगोचरत्वं निवारयति । चित्तवर्तिनो ज्ञानाकारस्य बाह्यज्ञेयसंबन्धं दर्शयतिबाह्यवस्तूपरागादिति । व्यवहितस्य तदुपरागे हेतुमाह-इन्द्रियप्रणालिकयेति । सामान्यमात्रमर्थ इत्येके । विशेष एवेत्यन्ये । सामान्यविशेषतद्वत्तेत्यपरे वादिनः प्रतिपत्राः । तन्निरासायाह-सामान्यविशेषात्मन इति । न तद्वत्ता किं तु तादात्म्यमर्थस्य । एतच्चैकान्तानभ्युपगमाद् (३।१३) इत्यत्र प्रतिपादयिष्यते । अनुमानागमविषयात्प्रत्यक्षविषयं व्यवच्छिनत्ति-विशेषावधारणप्रधानेति । यद्यपि सामान्यमपि प्रत्यक्षे प्रतिभासते तथापि विशेष प्रत्युपसर्जनीभूतमित्यर्थः । एतच्च साक्षात्कारोपलक्षणपरम् । तथा च विवेकख्यातिरपि लक्षिता भवति । फलविप्रतिपत्ति निराकरोति-फलं पौरुषेयश्चित्तवृत्तिबोध इति । ननु पुरुषवर्ती बोध: कथं चित्तगताया वृत्तेः फलम् ? न हि खदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियत इत्यत आह- अविशिष्ट इति। न हि पुरुषगतो बोधो जन्यते । अपि तु चैतन्यमेव बुद्धिवृत्त्यार्थाकारया तदाकारतामापद्यमानं फलम् । तच्च तथाभूतं बुरविशिष्टं बुद्ध्यात्मकं, वृत्तिश्च बुद्ध्यात्मिकेति सामानाधिकरण्याद्युक्तः प्रमाणफलभाव इत्यर्थः । एतच्चोपपादयिष्याम इत्याह-प्रतिसंवेदीति । प्रत्यक्षानन्तरं प्रवृत्त्यादिलिङ्गकश्रोतृबुद्ध्यनुमानप्रभवसंबन्धदर्शनसमुत्थतया गमस्यानुमानजत्वादनुमितस्य चागमेनान्वाख्यानादागमात्प्रागनुमानं लक्षयति अनुमेयस्येति । जिज्ञासितधर्मविशिष्टो धर्म्यनुमेयस्तस्य तुल्यजातीयाः साध्यधर्मसामान्येन समानार्थाः सपक्षास्तेष्वनुवृत्त इत्यनेन विरुद्धत्वमसाधारणत्वं च साधनधर्मस्य निराकरोति । भिन्नजातीया असपक्षास्ते च सपक्षादन्ये तद्विरुद्धास्तदभावश्च तेभ्यो व्यावृत्तस्तदनेन साधारणानैकान्तिकत्वमपाकरोति । संबध्यत इति संबन्धो लिङ्गम् । अनेन पक्षधर्मतां दर्शयनसिद्धतां निवारयति । तद्विषया तनिबन्धना । षिञ् बन्धने (धा.पा. ५।२) इत्यस्माद्विषयपदव्युत्पत्ते: सामान्यावधारणेति प्रत्यक्षविषयाव्यवच्छिनत्ति ।
SR No.008883
Book TitlePatanjalina Yoga sutro
Original Sutra AuthorN/A
AuthorGautam Patel, Ramkrushna Tuljaram Vyas
PublisherSanskrit Sahitya Academy Gandhinagar
Publication Year2004
Total Pages512
LanguageGujarati
ClassificationBook_Gujarati & Worship
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy