________________
પા. ૧ સૂ. ૫] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી
[ ૨૧
क्लेशा अस्मितादयो हेतवः प्रवृत्तिकारणं यासां वृत्तीनां तास्तथोक्ताः । यद्वा पुरुषार्थप्रधानस्य रजस्तमोमयीनां हि वृत्तीनां क्लेशकारणत्वेन क्लेशायैव प्रवृत्तिः । क्लेशः क्लिष्टं तदासामस्तीति क्लिष्टा इति । यत एव क्लेशोपार्जनार्थममूषां प्रवृत्तिरत एव कर्माशयप्रचयक्षेत्रीभूताः । प्रमाणादिना खल्वयं प्रतिपत्तार्थमवसाय तत्र सक्तो द्विष्टो वा कर्माशयमाचिनोतीति भवन्ति धर्माधर्मप्रचयप्रसवभूमयो वृत्तयः क्लिष्टा इति ।
अक्लिष्टा व्याचष्टे-ख्यातिविषया इति । विधूतरजस्तमसो बुद्धिसत्त्वस्य प्रशान्तवाहिनः प्रजाप्रसादः ख्यातिस्तया विषयिण्या तद्विषयं सत्त्वपुरुषविवेकमुपलक्षयति । तेन सत्त्वपुरुषविवेकविषया यतोऽत एव गुणाधिकारविरोधिन्यः । कार्यारम्भणं हि गुणानामधिकारो विवेकख्यातिपर्यवसानं च तदिति चरिताधिकाराणां गुणानामधिकारं विरुन्धन्तीति । अतस्ता अक्लिष्टाः प्रमाणप्रभृतयो वृत्तयः । स्यादेतद्वीतरागजन्मादर्शनात्क्लिष्टवृत्तय एव सर्वे प्राणभृतः । न च क्लिष्टवृत्तिप्रवाहे भवितुमर्हन्त्यक्लिष्टा वृत्तयः । न चामूषां भावेऽपि कार्यकारिता । विरोधिमध्यपातित्वात् । तस्माक्लिष्टानामक्लिष्टाभिनिरोधस्तासां च वैराग्येण परेणेति मनोरथमात्रमित्यत आहक्लिष्टप्रवाहेति । आगमानुमानाचार्योपदेशपरिशीलनलब्धजन्मनी अभ्यासवैराग्ये क्लिष्टच्छिद्रमन्तरा तत्र पतिताः स्वयमक्लिष्टा एव यद्यपि क्लिष्टप्रवाहपतिताः । न खलु शालग्रामे किरातशतसंकीर्णे प्रतिवसन्नपि ब्राह्मणः किरातो भवति । अक्लिष्टच्छि देष्विति निदर्शनम् । क्लिष्टान्तरवर्तितया च क्लिष्टाभिरनभिभूता अक्लिष्टाः । संस्कारपरिपाकक्रमेण क्लिष्टा एव तावदभिभवन्तीत्याह-तथाजातीयका इति । अक्लिष्टाभिर्वृत्तिभिरक्लिष्टाः संस्कारा इत्यर्थः । तदिदं वृत्तिसंस्कारचक्रमनिशमावर्तते, आ निरोधसमाधेः । तदेवंभूतं चित्तं निरोधावस्थं संस्कारशेषं भूत्वात्मकल्पेनावतिष्ठत इत्यापाततः प्रलयं वा गच्छतीति परमार्थतः पिण्डीकृत्य सूत्रार्थमाह-ता इति । पञ्चधेत्यर्थकथनमात्रं न तु शब्दवृत्ति व्याख्यानम् । तयपः प्रकारेऽस्मरणात् ॥५॥
ભલે. પણ માણસને જે શક્ય હોય એનો ઉપદેશ કરવામાં આવે છે. અને વૃત્તિઓને જાણ્યા વિના એમનો નિરોધ શક્ય નથી. આ અસંખ્ય વૃત્તિઓને કોઈ હજાર જન્મોમાં પણ ગણી શકે નહીં. અસંખ્ય વૃત્તિઓનો નિરોધ કેવી રીતે કરવો ? એવી આશંકાના સમાધાન માટે એમનું પ્રમાણ અને સ્વરૂપ નિરૂપતું સૂત્ર રજૂ કરે છે - એ ઘણી વૃત્તિઓનો વિરોધ કરવો જોઈએ – દુ:ખદ અને સુખદ વૃત્તિઓ પાંચ પ્રકારની છે. વૃત્તિરૂપ એક અવયવીના પ્રમાણ વગેરે પાંચ અવયવો છે. તેથી પાંચ અવયવોવાળી વૃત્તિ હોય છે. એ વૃત્તિઓ ચૈત્ર, મૈત્ર વગેરેના ચિત્તના ભેદને કારણે ઘણી છે, તેથી યોગ્ય રીતે બહુવચન પ્રયોજ્યું છે. કહેવાનો આશય એ છે કે ચૈત્ર,