________________
२०]
પતંજલિનાં યોગસૂત્રો
[पा. १ सू. ५
भाष्य
क्लेशहेतुकाः कर्माशयप्रचयक्षेत्रीभूताः क्लिष्टाः । ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः । क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः । क्लिष्टच्छिद्रे ष्वप्यक्लिष्टा भवन्ति, अक्लिष्टच्छिद्रेषु क्लिष्टा इति । तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते संस्कारैश्च वृत्तय इति । एवं वृत्तिसंस्कारचक्रमनिशमावर्तते । तदेवं भूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति ॥५॥
ક્લેશોનું કારણ બનતી અને કર્માશયની વૃદ્ધિ માટે ક્ષેત્ર (ભૂમિ)રૂપ બનતી વૃત્તિઓ દુઃખદ છે. અને વિવેકખ્યાતિને વિષય બનાવતી તેમજ ગુણોના કાર્યની વિરોધી વૃત્તિઓ સુખદ છે; એ દુઃખદ વૃત્તિઓના પ્રવાહમાં પડેલી હોય તો પણ સુખદ જ રહે છે. બે ક્લિષ્ટ વૃત્તિઓની વચ્ચે રહેલી હોય તો પણ એ અક્લિષ્ટ રહે છે. એ રીતે બે સુખદ વૃત્તિઓ વચ્ચે રહેલી દુ:ખદ વૃત્તિ પણ દુઃખદ જ રહે છે.
વૃત્તિઓથી એમની જાતિના સંસ્કારો ઉત્પન્ન થાય છે, અને સંસ્કારોથી વૃત્તિઓ ઉત્પન્ન થાય છે. આમ વૃત્તિ અને સંસ્કારનું ચક્ર સતત ફરતું રહે છે. આવું ચિત્ત એનો અધિકાર પૂરો થતાં (કૃતકૃત્ય બનીને) આત્મા साथै खे४३५ जने छे, अथवा (पोताना अराम) सय पामे छे. य तत्त्व वैशारदी
-
स्यादेतत्-पुरुषो हि शक्य उपदिश्यते । न च वृत्तिनिरोधो वृत्तीरविज्ञाय शक्यः । न च सहस्रेणापि पुरुषायुषैरलमिमाः कश्चित्परिगणयितुम् । असंख्याताश्च कथं निरोद्धव्या इत्याशङ्क्य तासामियत्तास्वरूपप्रतिपादनपरं सूत्रमवतारयति-ता: पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य- वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः । वृत्तिरूपोऽवयव्येकस्तस्य प्रमाणादयोऽवयवाः पञ्च । ततस्तदवयवा पञ्चतयी पञ्चावयवा वृत्तिर्भवति । ताश्च वृत्तयश्चैत्रमैत्रादिचित्तभेदाद्बह्वय इति बहुवचनमुपपन्नम् । एतदुक्तं भवति चैत्रो वा मैत्रो वान्यो वा कश्चित्सर्वेषामेव तेषां वृत्तयः पञ्चतय्य एव नाधिका इति । चित्तस्येति चैकवचनं जात्यभिप्रायम् । चित्तानामिति तु द्रष्टव्यम् । तासामवान्तरविशेषमनुष्ठानोपयोगिनं दर्शयति- क्लिष्टाक्लिष्टा इति । अक्लिष्टा उपादाय क्लिष्टा निरोद्धव्यास्ता अपि परेण वैराग्येणेति । अस्य व्याख्यानं-क्लेशहेतुका इति ।