________________
પા. ૧ સૂ. ૪]
વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી
[૧૭
अभिन्ना वृत्तयो यस्य पुरुषस्य स तथोक्तः । सारूप्यमित्यत्र सशब्द एकपर्यायः । एतदुक्तं भवति- जपाकुसुमस्फटिकयोरिव बुद्धिपुरुषयोः संनिधानादभेदग्रहे बुद्धिवृत्ती: पुरुष समारोप्य शान्तोऽस्मि दुःखितोऽस्मि मूढोऽस्मीत्यध्यवस्यति । यथा मलिने दर्पणतले प्रतिबिम्बितं मुखं मलिनमारोप्य शोचत्यात्मानं मलिनोऽस्मीति । यद्यपि पुरुषसमारोपोऽपि शब्दादिविज्ञानवद् बुद्धिवृत्तिर्यद्यपि च प्राकृ तत्वे - नाचिद्रूपतयानुभाव्यस्तथापि बुद्धेः पुरुषत्वमापादयन्पुरुषवृत्तिरिवानुभव इवावभासते । तथा चायमविपर्ययोऽप्यात्मा विपर्ययवानिवाभोक्तापि भोक्तेव विवेकख्यातिरहितोऽपि तत्सहित इव विवेकख्यात्या प्रकाशते । एतच्च चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् (४।२२) इत्यत्र सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः (३६३५) इत्यत्र चोपपादयिष्यते । एतच्च मतान्तरेपि सिद्धमित्याह-तथा चेति । पञ्चशिखाचार्यस्य सूत्रं 'एकमेव दर्शनं ख्यातिरेव दर्शनम्' इति । ननु कथमेकं दर्शनं यावता बुद्धेः शब्दादिविषया विवेकविषया च वृत्तिः प्राकृततया जडत्वेनानुभाव्या दर्शनं ततोऽन्यत्पुरुषस्य चैतन्यमनुभवो दर्शनमित्यत आह-ख्यातिरेव दर्शनमिति । उदयव्ययर्मिणी वृत्तिं ख्याति लौकिकीमभिप्रेत्यैतदुक्तम्-एकमेवेति । चैतन्यं तु पुरुषस्य स्वभावो न ख्यातेः । तत्तु न लोकप्रत्यक्षगोचरोऽपि त्वागमानुमानगोचर इत्यर्थः । तदनेन व्युत्थानावस्थायां मूलकारणमविद्यां दर्शयता तद्धेतुकः संयोगो भोगहेतुः स्वस्वामिभावोऽपि सूचित इति । तमुपपादयत्राह-चित्तं स्वं भवति पुरुषस्य स्वामिन इति संबन्धः । ननु चित्तजनितमुपकारं भजमानो हि चेतनश्चित्तस्येशिता । न चास्य तज्जनितोपकारसंबन्धसंभवस्तदनुपकार्यत्वात्तत्संयोगतदुपकारभागित्वे परिणामप्रसङ्गादित्यत आह-अयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वेनेति । न पुरुषसंयुक्तं चित्तमपि तु तत्संनिहितम् । संनिधिश्च पुरुषस्य न देशतः कालतो वा तदसंयोगात्कि तु योग्यतालक्षणः । अस्ति च पुरुषस्य भोक्तृशक्तिश्चित्तस्य भोग्यशक्तिः । तदुक्तम्-दृश्यत्वेनेति । शब्दाद्याकारपरिणतस्य भोग्यतेनेत्यर्थः । भोगश्च यद्यपि शब्दाद्याकारा वृत्तिश्चित्तस्य धर्मस्तथापि चित्तचैतन्ययोरभेदसमारोपावृत्तिसारूप्यात्पुरुषस्येत्युक्तम् । तस्माच्चित्तेनासंयोगेऽपि तज्जनितोपकारभागिता च पुरुषस्यापरिणामिता चेति सिद्धम् । ननु स्वस्वामिसंबन्धो भोगहेतुरविद्यानिमित्तोऽविद्या तु किंनिमित्ता । न खल्वनिमित्तं कार्यमुत्पद्यते । यथाहुः
"स्वप्नादिवदविद्यायाः प्रवृत्तिस्तस्य किंकृता ।" इति शङ्कामुपसंहारव्याजेनोद्धरति-तस्माच्चित्तवृत्तिबोधे । शान्तघोरमूढाकारचित्तवृत्त्युपभोगेनाद्यविद्यानिमित्तत्वादनादिः संयोगो हेतुरविद्यावासनयोश्च सन्तानो