________________
४२८]
પતંજલિનાં યોગસૂત્રો
[પા. ૪ સૂ. ૧૨
પૂર્ણપણે કાર્યશીલ નિમિત્ત પોતાનાથી ઉત્પન્ન થનાર ફળપર વિશેષ અનુગ્રહ ४३ छ, भने नवेसर पे ४२तुं नथी.
ધર્મી સ્વભાવથી અનેક ધર્મોવાળો છે. એના ધર્મો અધ્વ(કાળ) ભેદથી વ્યવસ્થિત રહેલા છે. અતીત અને અનામત વર્તમાનની જેમ દ્રવ્યતરીકે વિશેષ પ્રકારની અભિવ્યક્તિરૂપે પ્રગટેલા હોતા નથી. તો કેવા છે? પોતાના વ્યંગ્ય (પ્રગટ થનારા) સ્વરૂપ સાથે અનાગત રહે છે. પોતાના અનુભૂત થઈ ચૂકેલા વ્યક્ત સ્વરૂપસાથે અતીત રહે છે. વર્તમાનમાં જ એનું (કાર્યકારી) સ્વરૂપે પ્રગટ હોય છે. એવું અતીત અને અનાગત કાળમાં હોતું નથી. અને એક અધ્વના સમય દરમ્યાન બીજા બે અવ્વો ધર્મીમાં અનુગત હોય છે જ, તેથી આ ત્રણે અષ્પો અભાવથી ભાવરૂપ બનતા નથી. ૧૨
तत्त्ववैशारदी उत्तरं सूत्रमवतारयितुं शङ्कते-नास्तीति । असत इति तु संपातायातं निदर्शनाय वा । अतीतानागतं स्वरूपोऽस्त्यध्वभेदाद्धर्माणाम् । नासतामुत्पादो न सतां विनाशः । किं तु सतामेव धर्माणामध्वभेदपरिणाम एवोदयव्ययाविति सूत्रार्थः । अनुभूता प्राप्ता येन व्यक्तिस्तत् तथा । संप्रति व्यक्तिर्नास्तीति यावत् । इतश्च त्रैकाल्येऽपि धर्मः सन्नित्याह-यदि चेति । न सज् ज्ञानविषयः संभवतीति निरुपाख्यत्वात् । विषयावभासं हि विज्ञानं नासति विषये भवति । त्रैकाल्यविषयं च विज्ञानं योगिनामस्मदादीनां च विज्ञानमसति विषये नोत्पन्नं स्यात् । उत्पद्यते च । तस्मादतीतानागते सामान्यरूपेण समनुगते स्त इति । एवमनुभवतो ज्ञानं विषयसत्त्वे हेतुरुक्तम् । उद्देश्यत्वादप्यनागतस्य विषयत्वेन सत्त्वमेवेत्याह-किं च भोगभागीयस्येति । कुशलो निपुणः । अनुष्ठेयेऽपि च यद्यन्निमित्तं तत्सर्वं नैमित्तिके सत्येव विशेषमाधत्ते । यथा काण्डलाववेदाध्यायादयः । न खल्वेते काण्डलावादयोऽसन्तमुत्पादयन्ति । सत एव तु तत्प्राप्तिविकारौ कुर्वन्ति । एवं कुलालादयोऽपि सत एव घटस्य वर्तमानीभावहेतव इत्याह-सतश्चेति ।
यदि तु वर्तमानत्वाभावादतीतानागतयोरसत्त्वं हन्त भो वर्तमानस्याप्यभावोऽतीतानागतत्वाभावात् । अध्वधर्म्यविशिष्टतया तु सत्त्वं त्रयाणामप्यविशिष्टमित्यभिप्रायेणाह-धर्मी चेति । प्रत्येकमवस्थानं प्रत्यवस्थितिरिति । द्रव्यत इति । द्रव्ये धर्मिणि । सार्वविभक्तिकस्तसिः । यद्यतीतानागतावतीतानागतत्वेन स्तस्तर्हि वर्तमानसमये तत्त्वाभावान्न स्यातामित्यत आह- एकस्य चेति । प्रकृतमुपसंहरति-इति नाभूत्वा भाव इति ॥१२॥