________________
પા. ૧ સૂ. ૨] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી
[૯
વૈરાગ્યવાળું બનેલું ચિત્ત એનો પણ વિરોધ કરે છે. એ નિરુદ્ધ અવસ્થામાં ચિત્ત સંસ્કારશેષરૂપ હોય છે. એને નિર્બેજ સમાધિ કહે છે. એમાં કશું જણાતું નથી, તેથી એ અસંમજ્ઞાત છે. આમ ચિત્તવૃત્તિનિરોધરૂપ યોગ બે પ્રકારનો छ. २
तत्त्व वैशारदी द्वितीयं सूत्रमवतारयति - तस्य लक्षणेति । तस्येति पूर्वसूत्रोपात्तं द्विविधं योगं परामृशति । योगश्चित्तवृत्तिनिरोधः । निरुध्यन्ते यस्मिन्प्रमाणादिवृत्तयोऽवस्थाविशेषे चित्तस्य सोऽवस्थाविशेषो योगः । ननु संप्रज्ञातस्य योगस्याव्यापकत्वादलक्षणमिदम् । अनिरुद्धा हि तत्र सात्त्विकी चित्तवृत्तिरित्यत आह- सर्वशब्दाग्रहणादिति । यदि सर्वचित्तवृत्तिनिरोध इत्युच्येत भवेदव्यापकं संप्रज्ञातस्य । क्लेशकर्मविपाकाशयपरिपन्थी चित्तवृत्तिनिरोधस्तु तमपि संगृह्णाति । तत्रापि राजसतामसचित्तवृत्तिनिरोधात्तस्य च तद्भावादित्यर्थः । कुतः पुनरेकस्य चित्तस्य क्षिप्तादिभूमिसंबन्धः किमर्थं चैवमवस्थस्य चित्तस्य वृत्तयो निरोद्धव्या इत्याशङ्कय प्रथमं तावदवस्थासंबन्धहेतुमुपन्यस्यति-चित्तं हीति । प्रख्याशीलत्वात्सत्त्वगुणम् । प्रवृत्तिशीलत्वाद्रजोगुणम् । स्थितिशीलत्वात्तमोगुणम् । प्रख्याग्रहणमुपलक्षणार्थम् । तेनान्येऽपि सात्त्विकाः प्रसादलाघवप्रीत्यादयः सूच्यन्ते । प्रवृत्त्या च परितापशोकादयो राजसाः । प्रवृत्तिविरोधी तमोवृत्तिधर्मः स्थितिः । स्थितिग्रहणागौरवावरणदैन्यादय उपलक्ष्यन्ते । एतदुक्तं भवति- एकमपि चित्तं त्रिगुणनिर्मिततया गुणानां च वैषम्येण परस्परविमर्दवैचित्र्याद्विचित्रपरिमाणं सदनेकावस्थमुपपद्यत इति ।
___क्षिप्ताद्या एव चित्तस्य भूमीर्यथासंभवमवान्तरावस्थाभेदवतीरादर्शयति प्रख्यारूपं हीति । चित्तरूपेण परिणतं सत्त्वं चित्तसत्त्वम् । तदेवं प्रख्यारूपतया सत्त्वप्राधान्यं चित्तस्य दर्शितम् । तत्र चित्ते सत्त्वात्किञ्चिदूने रजस्तमसी यदा मिथः समे च भवतस्तदैश्वर्यं च विषयाश्च शब्दादयस्तान्येव प्रियाणि यस्य तत्तथोक्तम् । सत्त्वप्राधान्यात्खलु चित्तं तत्त्वे प्रणिधित्सदपि तत्त्वस्य तमसापिहितत्वादणिमादिकमैश्वर्यमेव तत्त्वमभिमन्यमानं तत्प्रणिधित्सति प्रणिधत्ते च क्षणम् । अथ रजसा क्षिप्यमाणं तत्राप्यलब्धस्थितिविशेषात्तत्प्रियमात्रं भवति । शब्दादिषु पुनरस्य स्वरसवाही प्रेमा निरूढ एव । तदनेन विक्षिप्तं चित्तमुक्तम् । क्षिप्तं चित्तं दर्शयन्मूढमपि सूचयति- तदेव तमसेति । यदा हि तमो रजो विजित्य प्रसृतं तदा चित्तसत्त्वावरकतमः समुत्सारणेऽशक्तत्वाद्रजसस्तमःस्थगितं चित्तमधर्माद्युपगच्छति । अज्ञानं च विपर्ययज्ञानमभावप्रत्ययालम्बनं च निद्राज्ञानमुक्तम् । ततश्च मूढावस्थापि सूचितेति ।