________________
१०]
પતંજલિનાં યોગસૂત્રો
[५.१ .२
अनैश्वर्यं सर्वत्रेच्छाप्रतीघातः । अधर्मादिव्याप्तं चित्तं भवतीत्यर्थः । यदा तु तदेव चित्तसत्त्वमाविर्भूतसत्त्वमपगततमःपटलं सरजस्कं भवति तदा धर्मज्ञानवैराग्यैश्वर्याण्युपगच्छतीत्याह-प्रक्षीणेत्यादि । मोहस्तमस्तदेव चावरणं प्रकर्षेण क्षीणं यस्य तत्तथोक्तम् । अत एव सर्वतो विशेषाविशेषलिङ्गमात्रालिङ्गपुरुषेषु प्रद्योतमानम् । तथापि न धर्मायैश्वर्याय च कल्पते प्रवृत्त्यभावादित्यत आह - अनुविद्धं रजोमात्रया । रजसः प्रवर्तकत्वादस्ति धर्मादिप्रवृत्तिरित्यर्थः । तदनेन संप्रज्ञातसमाधिसंपन्नयोर्मधुभूमिकप्रज्ञाज्योतिषोर्मध्यमयोर्योगिनोश्चित्तसत्त्वं संगृहीतम् ।
___संप्रत्यतिक्रान्तभावनीयस्य ध्यायिनश्चतुर्थस्य चित्तावस्थामाह-तदेव । चित्तं रजोलेशान्मलादपेतमत एव स्वरूपप्रतिष्ठम् । अभ्यासवैराग्यपुटपाकप्रबन्धविधूतरजस्तमोमलस्य हि बुद्धिसत्त्वतपनीयस्य स्वरूपप्रतिष्ठस्य विषयेन्द्रियप्रत्याह तस्यानवसिताधिकारतया च कार्यकारिणो विवेकख्यातिः परं कार्यमवशिष्यत इत्याहसत्त्वपुरुषान्यताख्यातिमात्र चित्तं धर्ममेघध्यानोपगं भवति । धर्ममेघश्च वक्ष्यते । अत्रैव योगिजनप्रसिद्धिमाह-तदिति । सत्त्वपुरुषान्यताख्यातिमात्रं चित्तं धर्ममेघपर्यन्तं परं प्रसंख्यानमित्याचक्षते ध्यायिनः । चित्तसामानाधिकरण्यं च धर्मधर्मिणोरभेदविवक्षया द्रष्टव्यम् । विवेकख्यातेर्हानहेतुं चितिशक्तेश्चोपादानहेतुं निरोधसमाधिमवतारयितुं चितिशक्तेः साधुतामसाधुतां च विवेकख्यातेर्दर्शयति-चितिशक्तिरित्यादि । सुखदुःखमोहात्मकत्वमशुद्धिः । सुखमोहावपि हि विवेकिनं दुःखाकुरुतः । अतो दुःखवद्धेयौ । तथातिसुन्दरमप्यन्तवदुनोति । तेन तदपि हेयमेव विवेकिनः । सेयमशुद्धिरन्तश्च चितिशक्तौ पुरुषे न स्त इत्युक्तम् - शुद्धा चानन्ता चेति । ननु सुखदुःखमोहात्मकशब्दादीनियं चेतयमाना तदाकारापना कथं विशुद्धा तदाकारपरिग्रहपरिवर्जने च कुर्वती कथमनन्तेत्यत उक्तम्-दर्शितविषयेति । दर्शितो विषयः शब्दादिर्यस्यै सा तथोक्ता । भवेदेतदेवं यदि बुद्धिवच्चितिशक्तिविषयाकारतामापोत, किं तु बुद्धिरेव विषयाकारेण परिणता सत्यतदाकारायै चितिशक्त्यै विषयमादर्शयति । ततः पुरुषश्चेतयत इत्युच्यते । ननु विषयाकारां बुद्धिमनारूढायाश्चितिशक्तेः कथं विषयवेदनं, विषयारोहे वा कथं न तदाकारापत्तिरित्यत उक्तम्-अप्रतिसंक्रमेति । प्रतिसंक्रमः संचारः । स चितेर्नास्तीत्यर्थः । स एव कुतोऽस्या नास्तीत्यत उक्तम् - अपरिणामिनीति । न चितेत्रिविधोऽपि धर्मलक्षणावस्थालक्षणः परिणामोऽस्ति, येन क्रियारूपेण परिणता सती बुद्धिसंयोगेन परिणमेत चितिशक्तिः । असंक्रान्ताया अपि विषयसंवेदनमुपपादयिष्यते । तत्सिद्धं चितिशक्तिः शोभनेति । विवेकख्यातिस्तु बुद्धिसत्त्वात्मिकाऽशोमनेत्युक्तम्-अतश्चितिशक्तेविपरीतेति । यदा च विवेकख्यातिरपि हेया तदा कैव कथा वृत्त्यन्तराणां दोषबहुलानामिति भावः । ततस्तद्धेतोनिरोधसमाधेरवतारो युज्यत