________________
उ८०]
પતંજલિનાં યોગસૂત્રો
[પા. ૩ સૂ. ૫૧
મળતાં, ક્લેશો વધારી મૂકશે. એનાથી ફરીથી અનિષ્ટનો પ્રસંગ થશે. પણ સંગ અને સ્મય ન કરનાર યોગી ધ્યેયભાવનામાં દૃઢ બનશે અને એની ઉદાત્ત ભાવનાનો વિષય અભિમુખ બનશે. ૫૧
तत्त्व वैशारदी संप्रति कैवल्यसाधने प्रवृत्तस्य योगिनः प्रत्यूहसंभवे तन्निराकरणकारणमुपदिशति-स्थान्युपनिमन्त्रणे सङ्गस्मायाकरणं पुनरनिष्टप्रसङ्गात् । स्थानानि येषां सन्ति ते स्थानिनो महेन्द्रादयः । तैरुपनिमन्त्रणं तस्मिन्सङ्गश्च स्मयश्च न कर्तव्यः, पुनरनिष्टप्रसङ्गात्। तत्र यं देवाः स्थानैरुपमन्त्रयन्ते तं योगिनमेकं निर्धारयितुं यावन्तो योगिनः संभवन्ति तावत एवाह-चत्वार इति । तत्र प्रथमकल्पिकस्य स्वरूपमाहतत्राभ्यासीति । प्रवृत्तमात्रं न पुनर्वशीकृतं ज्योतिर्ज्ञानं परचित्तादिविषयं यस्य स तथा। द्वितीयमाह-ऋतम्भरप्रज्ञ इति । यत्रेदमुक्तम्- "ऋतम्भरा तत्र प्रज्ञा" (१।४८) इति । स हि भूतेन्द्रियाणि जिगीषुः । तृतीयमाह-भूतेन्द्रियजयीति । तेन हि स्थूलादिसंयमेन ग्रहणादिसंयमेन च भूतेन्द्रियाणि जितानि । तमेवाह-सर्वेषु भावितेषु । निष्पादितेषु भूतेन्द्रियजयात्परचित्तादिज्ञानादिषु कृतरक्षाबन्धो यतस्तेभ्यो न च्यवते भावनीयेषु निष्पादनीयेषु विशोकादिषु परवैराग्यपर्यन्तेषु कर्तव्यसाधनवान् । पुरुषप्रयत्नस्य साधनविषयस्यैव साध्यनिष्पादकत्वात् । चतुर्थमाह-चतुर्थ इति । तस्य हि भगवतो जीवन्मुक्तस्य चरमदेहस्य चित्तप्रतिसर्ग एकोऽर्थः ।
तदेतेषु योगिषूपनिमन्त्रणविषयं योगिनमवधारयति-तत्र मधुमतीमिति । प्रथमकल्पिके तावन्महेन्द्रादीनां तत्प्राप्तिशङ्कव नास्ति । तृतीयोऽपि तैर्नोपनिमन्त्रणीयः; भूतेन्द्रियवशित्वेनैव तत्प्राप्तेः । चतुर्थेऽपि परवैराग्यसंपत्तेरासङ्गशङ्का दूरोत्सारितैवेति पारिशेष्याद् द्वितीय एव ऋतम्भरप्रज्ञस्तदुपनिमन्त्रणविषय इति । वैहायसमाकाशगामि । अक्षयमविनाशि । अजरं सदाभिनवम् ।
स्मयकरणे दोषमाह-स्मयादयमिति । स्मयात्सुस्थितंमन्यो नानित्यतां भावयिष्यति । न तस्यां प्रणिधास्यतीत्यर्थः । सुगममन्यत् ॥५१॥
“સ્થાનુપનિમંત્રણે..” વગેરે સૂત્રથી કૈવલ્યના સાધનમાં પ્રવૃત્ત થયેલા યોગીને વિનોની સંભાવના હોવાથી, એમના નિરાકરણ માટે ઉપદેશ કરે છે. સ્થાની એટલે સ્થાનવાળા મહેન્દ્ર વગેરે. એમની પ્રાર્થનાથી સંગ કે અભિમાન ન કરવાં, કારણ કે એનાથી ફરીવાર અનિષ્ટનો પ્રસંગ થાય છે. જેને દેવો સ્થાન વગેરેની લાલચ આપે છે, એ યોગીને નિશ્ચિત કરવા માટે “ચતાર ખલ્વમી યોગિતા”.. વગેરેથી યોગીઓના બધા સંભવિત પ્રકારો વર્ણવે છે. એમાં પહેલા