________________
39४]
પતંજલિનાં યોગસૂત્રો
[५. 3 सू. ४४
जम्बीरपनसामलकफलादीनि रसादिभेदात्परस्परं व्यावर्तन्ते । तेनैतेषामेते रसादयो विशेषाः । तथा चोक्तम्-एकजातिसमन्वितानां प्रत्येकं पृथिव्यादीनामेकैकया जात्या मूर्तिस्नेहादिना समन्वितानामेषा षड्जादिधर्ममात्रव्यावृत्तिरिति । तदेवं सामान्यं मूर्त्याद्युक्तं विशेषाश्च शब्दादय उक्ताः ।
ये चाहुः सामान्यविशेषाश्रयो द्रव्यमिति तान्प्रत्याह-सामान्यविशेषसमुदायोऽत्र दर्शने द्रव्यम् । येऽपि तदाश्रयो द्रव्यमास्थिषत तैरपि तत्समुदायोऽनुभूयमानो नाप तव्यः । न च तदपहवे तयोराधारो द्रव्यमिति भवति । तस्मात्तदेवास्तु द्रव्यम् । न तु ताभ्यां तत्समुदायाच्च तदाधारमपरं द्रव्यमुपलभामहे । ग्रावभ्यो ग्रावसमुदायादिव च तदाधारमपरं पृथग्विधं शिखरम् । समूहो द्रव्यमित्युक्तम् । तत्र समूहमानं द्रव्यमिति भ्रमापनुत्तये समूहविशेषो द्रव्यमिति निर्धारयितुं समूहप्रकारानाह-द्विष्ठो हीति । यस्मादेवं तस्मान समूहमानं द्रव्यमित्यर्थः । द्वाभ्यां प्रकाराभ्यां तिष्ठतीति द्विष्ठः । एकं प्रकारमाहप्रत्यस्तमितेति । प्रत्यस्तमितो भेदो येषामवयवानां ते तथोक्ताः । प्रत्यस्तमितभेदा अवयवा यस्य स तथोक्तः । एतदुक्तं भवति-शरीरवृक्षयूथवनशब्देभ्यः समूहः प्रतीयमानोऽप्रतीतावयवभेदस्तद्वाचकशब्दप्रयोगात्समूह एकोऽवगम्यत इति । युतायुतसिद्धावयवत्वेन चेतनाचेतनत्वेन चोदाहरणचतुष्टयम् । युतायुतसिद्धावयवत्वं चाग्रे वक्ष्यते। द्वितीयं प्रकारमाह-शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्या इति । देवमनुष्य इति हि शब्देनोभयशब्दवाच्यस्य समूहस्य भागौ भिन्नावुपात्तौ । ननूभयशब्दात्तदवयवभेदो न प्रतीयते । तत्कथमुपात्तभेदावयवानुगम इत्यत आह-ताभ्यां भागाभ्यामेव समूहोऽभिधीयते । उभयशब्देन भागद्वयवाचिशब्दसहितेन समूहो वाच्यः । वाक्यस्य वाक्यार्थवाचकत्वादिति भावः ।
पुनद्वैविध्यमाह-स चेति । भेदेन चाभेदेन च विवक्षितः । भेदविवक्षितमाहआम्राणां वनं ब्राह्मणानां सङ्घ इति । भेद एव षष्ठीश्रुतेः । यथा गर्गाणां गौरिति । अभेदविवक्षितमाह-आम्रवणं ब्राह्मणसङ्घ इति । आम्राश्च ते वनं चेति समूहसमूहिनोरभेदं विवक्षित्वा सामानाधिकरण्यमित्यर्थः ।
विधान्तरमाह-स पुनविविधः । युतसिद्धावयवः समूहः । युतसिद्धाः पृथक्सिद्धाः सान्तराला अवयवा यस्य स तथोक्तः, यूथं वनमिति । सान्तराला हि तदवयवा वृक्षाश्चा गावश्च । अयुतसिद्धावयवश्च समूहो वृक्षो गौः परमाणुः रिति । निरन्तरा हि तदवयवाः सामान्यविशेषा वा सास्नादयो वेति । तदेतेषु समूहेषु द्रव्यभूत समूहं निर्धारयति-अयुतसिद्धेति । तदेवं प्रासङ्गिकं द्रव्यं व्युत्पाद्य प्रकृतमुपसंहरतिएतत्स्वरूपमित्युक्तमिति ।