________________
પા. ૩ સૂ. ૪૪] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [ 393
चान्वयश्चार्थवत्त्वं चेति स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वानि । तेषु संयमात्तज्जयः । स्थूलमाह-तत्रेति । पार्थिवा: पाथसीयास्तैजसा वायवीया आकाशीया: शब्दस्पर्शरूपरसगन्धा यथासंभवं विशेषाः षड्जगान्धारादयः शीतोष्णादयो नीलपीतादय: १ कषायमधुरादयः सुरभ्यादयः । एते हि नामरूपप्रयोजनैः परस्परतो भिद्यन्त इति विशेषाः । एतेषां पञ्च पृथिव्याम् । गन्धवर्जं चत्वारोऽप्सु । गन्धरसवर्जं त्रयस्तेजसि । गन्धरसरूपवर्जं द्वौ नभस्वति । शब्द एवाकाशे । त एत ईदृशा विशेषा: सहाकारादिभिर्धर्मैः स्थूलशब्देन परिभाषिताः शास्त्रे । तत्र पार्थिवास्तावद्धर्माः आकारो गौरवं रौक्ष्यं वरणं स्थैर्यमेव च । वृत्तिर्भेदः क्षमा कार्यं काठिन्यं सर्वभोग्यता ॥
अपां धर्माः स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत् । शैत्यं रक्षा पवित्रत्वं संधानं चोदका गुणाः ॥ उर्ध्वभाक्याचकं दग्धृ पावकं लघु भास्वरम् । प्रध्वंस्योजस्वि वै तेजः पूर्वाभ्यां भिन्नलक्षणम् ॥ तिर्यग्यानं पवित्रत्वमाक्षेपो नोदनं बलम् । चलमच्छायता रौक्ष्यं वायोर्धर्माः पृथग्विधाः ॥
तैजसा धर्माः
-
वायवीया धर्माः
आकाशीया धर्मा:- सर्वतोगतिरव्यूहोऽविष्टम्भश्चेति ते त्रयः । आकाशधर्मा व्याख्याताः पूर्वधर्मविलक्षणाः ॥ इति । त एत आकारप्रभृतयो धर्मास्तै सहेति । आकारश्च सामान्यविशेषो गोत्वादिः ।
द्वितीयं रूपमाह-द्वितीयं रूपं स्वसामान्यम् । मूर्तिः सांसिद्धिकं काठिन्यम् । स्नेहो जलं मज्जापुष्टिबलाधानहेतुः । वह्निरुष्णतौदर्ये सौर्ये भौमे च सर्वत्रैव तेजसि समवेतोष्णतेति । सर्वं चैतद्धर्मधर्मिणोरभेदविवक्षयाभिधानम् । वायुः प्रणामी वहनशीलः । तदाह
चलनेन तृणादीनां शरीरस्याटनेन च । सर्वगं वायुसामान्यं नामित्वमनुमीयते ॥
सर्वतोगतिराकाशः, सर्वत्र शब्दोपलब्धिदर्शनात् । श्रोत्राश्रयाकाशगुणेन हि शब्देन पार्थिवादिशब्दोपलब्धिरित्युपपादितमधस्तात् ( ३।४१ टीका ) । एतत्स्वरूपशब्देनोक्तम् । अस्यैव मूर्त्यादिसामान्यस्य शब्दादयः षड्जादय उष्णत्वादयः शुक्लत्वादयः कषायत्वादयः सुरभित्वादयो मूर्त्यादीनां सामान्यानां भेदाः । सामान्यान्यपि मूर्त्यादीनि
I