________________
પા. ૩ સૂ. ૩૫] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [૩૫૭
એની સમક્ષ વિષયોનું નિવેદન કરે છે. સત્ત્વનો આવો ભોગપ્રત્યય બીજા માટે હોવાથી દશ્ય છે. એનાથી તદ્દન જુદા, ચિતિમાત્ર સ્વરૂપના પુરુષ વિષયક પ્રત્યયમાં સંયમ કરવાથી પુરુષવિષયકપ્રજ્ઞા ઉત્પન્ન થાય છે. આવા પુરુષ વિષયક પ્રત્યય (જ્ઞાન)થી બુદ્ધિસત્ત્વરૂપ (બુદ્ધિમાં પ્રતિબિંબિત થયેલો) પુરુષ દેખાતો નથી, પણ સ્વયં પુરુષ પોતાના અવલંબનરૂપ પ્રત્યયને જુએ छ. मा विषे ह्यु छ : “विताने ओनाव: वो ?" (पृ. ७५. २.४.१४; ४.५.१५). 34
तत्त्व वौशारदी सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थसंयमात्पुरुषज्ञानम् । यत्र प्रकाशरूपस्यातिस्वच्छस्य नितान्ताभिभूतरजस्तमस्तया विवेकख्यातिरूपेण परिणतस्य बुद्धिसत्त्वस्यात्यन्तिकश्चैतन्यादसंकरस्तत्र कैव कथा रजस्तमसोर्जडस्वभावयोरित्याशयवान्सूत्रकारः सत्त्वपुरुषयोरित्युवाच । इममेवाभिप्रायं गृहीत्वा भाष्यकारोऽप्याह-बुद्धिसत्त्वं प्रख्याशीलमिति । न केवलं प्रख्याशीलमात्रम्, अपि तु विवेकख्यातिरूपेण परिणतम् । अतो नितान्तशुद्धप्रकाशतयात्यन्तसारूप्यं चैतन्येनेति संकर इत्यत आह-समानेति । सत्त्वेनोपनिबन्धनमविनाभाव: संबन्धः समानं सत्त्वोपनिबन्धनं ययो रजस्तमसोस्ते तथोक्ते । वशीकारोऽभिभवः । असंकरमाहतस्माच्चेति । चकारोऽप्यर्थः । केवलं रजस्तमोभ्यामित्यर्थः । परिणामिन इति वैधर्म्यमपरिणामिनः पुरुषादुक्तम् । प्रत्ययाविशेषः शान्तघोरमूढरूपाया बुद्धेश्चैतन्यबिम्बोद्ग्राहेण चैतन्यस्य शान्ताद्याकाराध्यारोपश्चन्द्रमस इव स्वच्छसलिलप्रतिबिम्बितस्य तत्कम्पात्कम्पनारोपः । भोगहेतुमाह- दर्शितविषयत्वादिति असकृद्धयाख्यातम् (१।२; १।४; २०१७; २।२३) । ननु बुद्धिसत्त्वमस्तु पुरुषभिन्नम्, भोगस्तु पुंसः कुतो भिद्यत इत्यत आह-स भोगप्रत्ययो भोगरूपः प्रत्ययः सत्त्वस्यातः परार्थत्वाद् दृश्यो भोग्यः । सत्त्वं हि परार्थम्, संहतत्वात् । तद्धर्मश्च भोग इति सोऽपि परार्थः । यस्मै च परस्मा असौ तस्य भोक्तुर्भोग्यः । अथवानुकूलप्रतिकूलवेदनीयस्तु सुखदुःखानुभवो भोगः । न चायमात्मानमेवानुकूलयति प्रतिकूलयति वा, स्वात्मनि वृत्तिविरोधात् । अतोऽनुकूलनीयप्रतिकूलनीयार्थो भोगः । स भोक्तात्मा तस्य दृश्यो भोग्य इति ।
यस्तु तस्मात्परार्थाद्विशिष्ट इति । परार्थादिति पञ्चम्यन्यपदाध्याहारेण व्याख्याता। स्यादत्तेत्- पुरुषविषया चेत्प्रज्ञा हन्त भोः पुरुषः प्रज्ञायाः प्रज्ञेय इति प्रज्ञान्तरमेव तत्र तत्रेत्यनवस्थापात इत्यत आह- न च पुरुषप्रत्येयेनेति । अयमभिसन्धिः