________________
उ२४]
પતંજલિનાં યોગસૂત્રો
[पा. उ सू. १७
अयमभिसंधिः-परप्रत्यायनाय शब्दः प्रयुज्यते । तत्र तदेव च परं प्रति प्रतिपादयितव्यं यत्तैः प्रतिपित्सितम् । तदेव तैः प्रतिपित्सितं यदुपादानादिगोचरः । न च पदार्थमात्रं तद्गोचरः किं तु वाक्यार्थ इति वाक्यार्थपरा एव सर्वे शब्दाः । तेन स एव तेषामर्थः। अतो यत्रापि केवलस्य पदस्य प्रयोगस्तत्रापि पदान्तरेण सहकीकृत्य ततोऽर्थो गम्यते, न तु केवलात् । कस्मात् ? तन्मात्रस्यासमर्थ्यात् । तथा च वाक्यमेव तत्र तत्र वाचकं न तु पदानि । तद्भागतया तु तेषामप्यस्ति वाक्यार्थवाचकशक्तिः पदार्थ इव पदभागतया वर्णानाम् । तेन यथा वर्ण एकैकः सर्वपदार्थाभिधानशक्तिप्रचित एवं पदमप्येकैकं सर्ववाक्यार्थाभिधानशक्तिप्रचितम् । तदिदमुक्तम्-सर्वपदेषु चास्ति वाक्यशक्तिः । वृक्ष इत्युक्तेऽस्तीति गम्यते । आध्याहृतास्तिपदसहितं वृक्ष इति पदं वाक्यार्थे वर्तत इति तद्भागत्वावृक्षपदं तत्र वर्तत इत्यर्थः । कस्मात्पुनरस्तीति गम्यत इत्यत आह - न सत्तां पदार्थो व्यभिचरतीति। लोक एव हि पदानामर्थावधारणोपायः । स च केवलं पदार्थमस्त्यर्थेनाभिसमस्य सर्वत्र वाक्यार्थीकरोति । सोऽयमव्यभिचारः सत्तया पदार्थस्य । अत एव शब्दवृत्तिविदां व्यवहारोऽयं यत्रान्यत्क्रियापदं नास्ति तत्रास्तिर्भवन्तीपरः प्रयोक्तव्य इति ।
क्रियाभेदाव्यभिचारि प्रातिपदिकमुक्त्वा क्रियाभेदं कारकाव्यभिचारिणं दर्शयति-तथा च पचतीत्युक्त इति । पचतीत्युक्ते हि कारकमात्रस्य तदन्वययोग्यस्यावगमादन्यव्यावृत्तिपरस्तद्भेदानामनुवादः । तदेवं भेद एव वाक्यार्थ इति । तथानपेक्षमपि पदं वाक्यार्थे वर्तमानं दृश्यत इति सुतरामस्ति वाक्यशक्तिः पदानामित्याहदृष्टं चेति । न चैतावतापि श्रोत्रियादिपदस्य स्वतन्त्रस्यैवंविधार्थप्रत्यायनं न यावदस्त्यादिभिरभिसमासोऽस्य भवति । तथा चास्यापि वाक्यावयवत्वात्कल्पितत्वमेवेति भावः । स्यादेतत्-पदानामेव चेद्वाक्यशक्तिः कृतं तर्हि वाक्येन । तेभ्य एव तदर्थावसायादित्यत आह - तत्र वाक्य इति । उक्तमेतन केवलात्पदात्पदार्थः प्रतिपित्सितः प्रतीयते न यावदेतत्पदान्तरेणाभिसमस्यत इति । तथा वाक्यात्पदान्यपोद्धृत्य कल्पितानि वाक्यार्थाच्चापोदधृत्य तदेकदेशं कारकं क्रियां वा तत्पदं प्रकृत्यादिविभागकल्पनया व्याकरणीयमन्वाख्येयम् । किमर्थं पुनरेतावता क्लेशेनान्वाख्यायत इत्यत आह-अन्यथेति । घटो भवति, भवति भिक्षां देहि, भवति तिष्ठतीति नामाख्यातयोश्च साम्यात् । एवमश्वस्त्वमश्वो यातीति । एवमजापयः पिब, अजापयः शत्रूनिति । नामाख्यात-सारूप्यादनितिं नामत्वेनाख्यातत्वेन वान्वाख्यानाभावे निष्कृष्याज्ञातं कथं क्रियायां कारके वा व्याक्रियेत । तस्माद्वाक्यात्पदान्यपोद्धृत्य व्याख्यातव्यानि । न त्वन्वाख्यानादेव परमार्थिको विभागः पदानामिति ।
तदेवं शब्दरूपं व्युत्पाद्य शब्दार्थप्रत्ययानां संकेतापादितसंकराणाम