________________
પા. ૩ સૂ. ૧૭] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વશારદી [ ૩૨૩
न ह्यस्य वर्णाः भागाः, किं तु सादृश्योपधानभेदात्पदमेव तेन तेनाकारेणापरमार्थसता प्रथते । न हि मणिकृपाणदर्पणादिवर्तीनि मुखानि मुखस्य परमार्थसतोऽवयवा इति । बौद्धमनुसंहारबुद्धौ विदितमन्त्यवर्णप्रत्ययस्य व्यापारः संस्कारः पूर्ववर्णानुभवजनितसंस्कारसहितः । तेनोपस्थापितं विषयीकृतम् । वर्णानुभवतत्संस्काराणां च पदविषयत्वमुपपादितमधस्तात् । स्यादेतत्-अभागमक्रममवर्णं चेत्पदतत्त्वं कस्मादेवंविधं कदाचिन प्रथते न हि लाक्षारसावसेकोपधानापादितारुणभावः स्फटिकमणिस्तदपगमे स्वच्छधवलो नानुभूयते । तस्मात्पारमार्थिका एव वर्णा इत्यत आह-परत्रेति । प्रतिपिपादयिषया वगैरेवाभिधीयमानैरुच्चार्यमाणैः श्रूयमाणैश्च श्रोतृभिरनादिर्योऽयं वाग्व्यवहारो विभक्तवर्णपदनिबन्धनस्तज्जनिता वासना साप्यनादिरेव । तदनुविद्धया तद्वासितया लोकबुद्ध्या विभक्तवर्णरचितपदावगाहिन्या सिद्धवत्परमार्थवत्संप्रतिपत्त्या संवादेन वृद्धानां पदं प्रतीयते । एतदुक्तं भवति - अस्ति कश्चिदुपाधिर्य उपधेयेन संयुज्यते वियुज्यते च । यथा लाक्षादिः । तत्र तद्वियोगे स्फटिकः स्वाभाविकेन स्वच्छधवलेन रूपेण प्रकाशत इति युज्यते । पदप्रत्ययस्य तु प्रयत्नभेदोपनीतध्वनिभेदादन्यतोऽनुत्पादात्तस्य च तदा सादृश्यदोषदूषिततया वर्णात्मनैव प्रत्ययजनकत्वमिति कुतो निरुपाधिनः पदस्य प्रथा । यथाहुः
ध्वनयः सदृशात्मानो विपर्यासस्य हेतवः । उपलम्भकमेतेषां विपर्यासस्य कारणम् ॥ उपायत्वाच्च नियतः पददर्शितदर्शिनाम् ।
ज्ञानस्यैव च बाधेयं लोके ध्रुवमुपप्लव: ॥ इति । यतः पदात्मा विभक्तवर्णरूषितः प्रकाशतेतः स्थूलदर्शी लोको वर्णानेव पदमभिमन्यमानस्तानेव प्रकारभेदभाजोऽर्थभेदे संकेतयतीत्याह-तस्येति । तस्य पदस्याजानत एकस्यापि संकेतबुद्धितः स्थूलदशिलोकहिताय वर्णात्मना विभागः । विभागमाह-एतावतां न न्यूनानामधिकानां वा, एवंजातीयको नैरन्तर्यक्रमविशेषोऽनुसंहार एकबुद्ध्युपग्रह एतस्यार्थस्य गोत्वादेर्वाचक इति । ननु यद्येतस्यार्थस्यायं शब्दो वाचक इति संकेतो, हन्त भोः शब्दार्थयोर्नेतरेतराध्यासस्तीत्यत आह- संकेतस्त्विति । स्मृतावात्मा स्वरूपं यस्य स तथोक्तः । न हि कृत इत्येव संकेतोऽर्थमवधारयत्यपि तु स्मर्यमाणः । एतदुक्तं भवति- अभिन्नाकार एव संकेते कथञ्चिद्भेदं परिकल्प्य षष्ठी प्रयुक्तेति । य एषां प्रविभागज़: स तत्र संयमे भवति सर्ववित्सर्वभूतरुतज्ञ इति ।
तदेवं कल्पितवर्णभागमेकमनवयवं पदं व्युत्पाद्य कल्पितपदविभागं वाक्यमेकमनवयवं व्युत्पादयितुमाह - सर्वपदेषु चास्ति वाक्यशक्तिरिति ।