________________
उ२२]
પતંજલિનાં યોગસૂત્રો
[41. 3 सू. १७
सभागमिवालम्बते । अतो गोपदस्फोटभेदस्यैकस्य गकारभागो गौरादिपदस्फोटसादृश्येन न निर्धारयति, स्वभागिणमित्योकारेण विशिष्टो निर्धारयति । एवमोकारोऽपि भागः शोचिरादिपदसदृशतया न शक्तो निर्धारयितुं स्वभागिनं गोपदस्फोटमिति गकारेण विशिष्टो निर्धारयति । असहभाविनामपि च संस्कारद्वारेणास्ति सहभाव इति विशेषणविशेष्यभावोपपत्तिः । न च भिन्नविषयत्वं संस्कारयोर्भागद्वयविषययोरनुभवयोस्तजन्मनोश्च संस्कारयोरेकपदविषयत्वात् । केवलभागानुभवेन पदमव्यक्तमनुभूयते । अनुसंहारधिया तु भागानुभवयोनिसंस्कारलब्धजन्मना व्यक्तमिति विशेषः । अव्यक्तानुभवाश्च प्राञ्चः संस्काराधानक्रमेण व्यक्तमनुभवमादधाना दृष्टा यथा दूराद्वनस्पती हस्तिप्रत्यया अव्यक्ता व्यक्तवनस्पतिप्रत्ययहेतवः । न चेयं विधा वर्णानामर्थप्रत्यायने संभविनी । न खलु वर्णाः प्रत्येकमव्यक्तमर्थप्रत्ययमादधत्यन्ते व्यक्तमिति शक्यं वक्तुम् । प्रत्यक्षज्ञान एव नियमाव्यक्ताव्यक्तत्वस्य । वर्णाधेयस्त्वर्थप्रत्ययो न प्रत्यक्षः । तदेष वर्णेभ्यो जायमानः स्फुट एव जायेत न वा जायेत न त्वस्फुटः । स्फोटस्य तु ध्वनिव्यङ्ग्यस्य प्रत्यक्षस्य सतः स्फुटास्फुटत्वे कल्प्येते इत्यसमानम् । एवं प्रत्येकवर्णानुभवजनितसंस्कारसहितश्रोत्रलब्धजन्मन्यनुसंहारबुद्धौ संहता वर्णा एकपदस्फोटभावमापन्नाः प्रयत्नावशेषव्यङ्ग्यतया प्रयत्नविशेषस्य च नियतकमापेक्षतया क्रमस्यान्यत्वे तदभिव्यञ्जकप्रयत्नविशेषाभावेन तदभिव्यक्त्यभावप्रसङ्गात्क्रमानुरोधिनोऽर्थसंकेतेनावच्छिन्नाः, संकेतावच्छेदमेव लौकिकं सभागपदविषयं दर्शयन्ति, इयन्तो द्वित्रास्त्रिचतुराः पञ्चषा वा एते सर्वाभिधानशक्तिपरिवृता गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थमवद्योतयन्तीति ।
तत्किमिदानी संकेतानुसारेण वर्णानामेव वाचकत्वम् । तथा च न पदं नाम किञ्चिदेकमित्यत आह-तदेतेषामिति । ध्वनिनिमित्तः क्रमो ध्वनिक्रमः । उपसंहृतो ध्वनिक्रमो येषु ते तथोक्ताः । बुद्ध्या निर्भास्यते प्रकाश्यते इति बुद्धिनिर्भासः । संकेतावच्छिन्नाः स्थूलदर्शिलोकाशयानुरोधेन गकारौकारविसर्जनीया इत्युक्तम् । गकारादीनामपि तद्भागतया तादात्म्येन वाचकत्वात् । प्रतीत्यनुसारतस्त्वेकमेव पदं वाचकमित्यर्थः । एतदेव स्पष्टयति-तदेकं पदं लोकबुद्ध्या प्रतीयत इति सम्बन्धः । कस्मादेकमित्यत आह-एकबुद्धिविषयम् । गौरित्येकं पदमित्येकाकाराया बुद्धेविषयो यतस्तस्मादेकम् । तस्य व्यञ्जकमाह-एकप्रयत्नाक्षिप्तमिति । रस इतिपदव्यञ्जकात्प्रयत्नाद्विलक्षणः सर इतिपदव्यञ्जकः प्रयत्नः । स चोपक्रमतः सर इति पदव्यक्तिलक्षणफलावच्छिनः पूर्वापरीभूत एकः तदाक्षिप्तं भागानां सादृश्योपधानभेदकल्पितानां परमार्थसतामभावादभागम् । अत एव पूर्वापरीभूतभागाभावादक्रमम् । ननु वर्णाः पूर्वापरीभूतास्ते चास्य भागा इति कथमक्रममभागं चेत्यत आह-अवर्णमिति ।