________________
પા. ૩ સૂ. ૧૪] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [ ३०७
तत्त्व वैशारदी
यस्यैष त्रिविधः परिणामस्तं धर्मिणं सूत्रेण लक्षयति-तत्र-शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी । धर्मोऽस्यास्तीति धर्मीति नाविज्ञाते धर्मे स शक्यो ज्ञातुमिति धर्मं दशयति-योग्यतेति । धर्मिणो द्रव्यस्य मृदादेः शक्तिरेव चूर्णपिण्डघटाद्युत्पत्तिशक्तिरेव धर्मः । तेषां तत्राव्यक्तेन भाव इति यावत् । नन्वेवमव्यक्ततया सन्तस्ते ततः प्रादुर्भवन्तु । उदकाहरणादयस्तु तैः स्वकारणादनासादिता कुतः प्राप्ता इत्यत उक्तम् - योग्यतावच्छिन्नेति । यासौ घटादीनामुत्पत्तिशक्तिः सोदकाहरणादियोग्यतावच्छिन्ना । तेनोदकाहरणादयोऽपि घटादिभिः स्वकारणादेव प्राप्ता इति । नाकस्मिका इति भावः । अथवा के धर्मिण इत्यत्रोत्तरं- योग्यतावच्छिन्ना धर्मिण इति । को धर्म इत्यत्रोत्तरं शक्तिरेव धर्मः । तेषां योग्यतैव धर्म इत्यर्थः । अतस्तद्वान्धर्मीति सिद्धं भवति । तत्सद्भावे प्रमाणमाह-स च फलप्रसवभेदानुमित एकस्य धर्मिणोऽन्यश्चान्यश्च चूर्णपिण्डघटादिरूप इत्यर्थः । कार्यभेददर्शनाच्च भिन्न इति यावत् । परिदृष्ट उपलब्धः । तत्रानुभवारोहिणो वर्तमानस्य मृत्पिडस्य शान्ताव्यपदेश्याभ्यां मृच्चूर्णमृद्घटाभ्यां भेदमाह - तत्र वर्तमान इति । यदि न भिद्येत पिंण्डवच्चूर्णंघटयोरपि तद्वदेव स्वव्यापारव्याप्तिप्रसङ्ग इति भावः । अव्यक्तस्य तु पिण्डस्य नोक्तं भेदसाधनं संभवतीत्याह-यदा त्विति । कौऽसौ केन भेदसाधनेन भिद्येति ।
I
तदेवं धर्माणां भेदसाधनमभिधाय तं भेदं विभजते-तत्र ये खिल्विति । उदिता इति वर्तमाना इत्यर्थः । अध्वनां पौर्वापर्यं निगमयति - ते चेति । चोदयतिकिमर्थमिति । किंनिमित्तमतीतस्यानन्तरा न भवन्ति वर्तमानाः । हेतुमाह सिद्धान्तीपूर्वपश्चिमताया अभावात् । विषयेण विषयिणीमनुपलब्धि सूचयति । अनुपलम्भमेवोपलम्भवैधर्म्येण दर्शयति- यथानागतवर्तमानयोरिति । उपसंहरति-तदिति । तत्तस्मादनागत एव समनन्तरः पूर्वत्वेन भवति वर्तमानस्य नातीतः । अतीतस्य वर्तमानः पूर्वत्वेन समनन्तरो नाव्यपदेश्यः । तस्मादध्वनां यविष्ठोऽतीत इति सिद्धम् ।
स्यादेतत्-अनुभूयमानानुभूततयोदितातीतौ शक्यावुन्नेतुम् । अव्यपदेश्यास्तु पुनर्धर्मा अव्यपदेश्यतयैव शक्या नोन्नेतुमित्याशयवान्पृच्छति - अथाव्यपदेश्या: के केषु समीक्षामहे । अत्रोत्तरमाह - सर्वं सर्वात्मकमिति । यत्रोक्तमिति । तदेवोपपादयतिजलभूम्योरिति । जलस्य हि रसरूपस्पर्शशब्दवतो भूमेश्च गन्धरसरूपस्पर्शशब्दवत्याः पारिणामिकं वनस्पतिलतागुल्मादिषु मूलफलप्रसवपल्लवादिगतरसादिवैश्वरूप्यं दृष्टम् । सोऽयमनेवमात्मकाय भूमेरनीदृशस्य वा जलस्य न परिणामो भवितुमर्हति । उपपादितं हि नासदुत्पद्यत इति । ( ३।१३ व्याख्या) तथा स्थावराणां पारिणामिकं जङ्गमेषु