________________
પા. ૩ સૂ. ૧૩] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [ २८७
भावरूपविरुद्धधर्मसंसर्गादसंकरोऽध्वनामिति । दृष्टान्तमाह-यथा रागस्येति । पूर्वं क्रोधस्य रागसंबन्धावगमो दर्शित इति । इदानीं तु विषयान्तरवर्तिनो रागस्य विषयान्तरवर्तिना रागान्तरेण संबन्धावगम इति । दान्तिकमाह तथा लक्षणस्येतीति ।
ननु सत्यप्यनेकान्ताभ्युपगमे भेदोऽस्तीति धर्मलक्षणावस्थान्यत्वे तदभिन्नस्य धर्मिणोऽप्यन्यत्वप्रसङ्गः । स एव च नेष्यते । तदनुगमानुभवविरोधादित्यत आहन धर्मी त्र्यध्वा इति । यतस्तदभिन्ना धर्मास्त्रयध्वानः । धर्माणामध्वत्रययोगमेव स्फोरयति तइति । लक्षिता अभिव्यक्ता वर्तमाना इति यावत् । अलक्षिता अनभिव्यक्ता अनागता अतीताश्चेति यावत् । तत्र लक्षितां तां तामवस्थां बलवत्त्वदुर्बलत्वादिकां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः । अवस्थाशब्देन धर्मलक्षणावस्था उ॒च्यन्ते । एतदुक्तं भवति - अनुभव एव हि धर्मिणो धर्मादीनां भेदाभेदौ व्यवस्थापयति । न ह्यैकान्तिकेऽभेदे धर्मादीनां धर्मिणो धर्मिरूपवद्धर्मादित्वम् । नाप्यैकान्तिके भेदे गवाश्ववद्धर्मादित्वम् । स चानुभवोऽनैकान्तिकत्वमवस्थापयन्नपि धर्मादिषूपजनापायधर्मकेष्वपि धर्मिणमेकमनुगमयन्धर्मांश्च परस्परतो व्यावर्तयन्प्रत्यात्ममनुभूयत इति तदनुसारिणो वयं न तमवितर्त्य स्वेच्छया धर्मानुभवान् व्यवस्थापयितुमीश्मह इति । अत्रैव लौकिकं दष्टान्तमाह-यथैका रेखेति । यथा तदेव रेखास्वरूपं तत्तत्स्थानापेक्षया शतादित्वेन व्यपदिश्यत एवं तदेव धर्मिरूपं तत्तद्धर्मलक्षणावस्थाभेदेनान्यत्वेन प्रतिनिर्दिश्यत इत्यर्थः । दान्तिकार्थं दृष्टान्तान्तरमाह-यथा चैकत्वेऽपीति ।
अत्रान्तरे परोक्तं दोषमुत्थापयति-अवस्थेति । अवस्थापरिणामे धर्मलक्षणावस्थापरिणामे कौटस्थ्यदोषप्रसङ्ग उक्तो धर्मिधर्मलक्षणावस्थानाम् । पृच्छति कथमिति । उत्तरम् - अध्वनो व्यापारेणेति । दध्नः किल योऽनागतोऽध्वा तस्य व्यापारः क्षीरस्य वर्तमानत्वं तेन व्यवहितत्वाद्धेतोः । यदा धर्मो दधिलक्षणः स्वव्यापारं दाधिकाद्यारम्भं क्षीरे सन्नपि न करोति तदानागतः । यदा करोति तदा वर्तमानः । यदा कृत्वा निवृत्तः सन्नेव स्वव्यापाराद्दाधिकाद्यारम्भात्तदातीत इति । एवं त्रैकाल्येऽपि सत्त्वाद्धर्मधर्मिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोति । सर्वदा सत्ता हि नित्यत्वम् । चतुर्णामपि च सर्वदा सत्त्वेऽसत्त्वे वा नोत्पादः । तावन्मात्रं च लक्षणं कूटस्थनित्यतायाः । न हि चितिशक्तेरपि कूटस्थनित्यायाः कश्चिदन्यो विशेष इति भावः ।
परिहरति-नासौ दोष: ? कस्मात् । गुणिनित्यत्वेऽपि गुणानां विमर्दोऽन्योन्याभिभाव्याभिभावकत्वं, तस्य वैचित्र्यात् । एवदुक्तं भवति यद्यपि सर्वदा सत्त्वं चतुर्णामपि गुणिगुणानां तथापि गुणविमर्दवैचित्र्येण तदात्मभूततद्विकाराविर्भाव