________________
२८६ ]
પતંજલિનાં યોગસૂત્રો
[पासू. 13
त्वैकान्तिक नित्यतामातिष्ठामहे । किं तु तदेतत्त्रैलोक्यं न तु द्रव्यमात्रं व्यक्तेरर्थक्रियाकारिणो रूपादपैति । कस्मात् ? नित्यत्वप्रतिषेधात्प्रमाणेन । यदि घटो व्यक्तेनपियात्कपालशर्कराचूर्णादिष्ववस्थास्वपि व्यक्तो घट इति पूर्ववदुपलब्ध्यर्थक्रिये कुर्यात् । तस्मादनित्यं त्रैलोक्यम् । अस्तु तर्ह्यनित्यमेवोपलब्ध्यर्थक्रियारहितत्वेन गगनारविन्दवदतितुच्छत्वादित्यत आह- अपेतमप्यस्ति । नात्यन्ततुच्छता येनैकान्ततोऽनित्यं स्यादित्यर्थः । कस्मात् ? विनाशप्रतिषेधात्प्रमाणेन । तथा हि- यत्तुच्छं न तत्कदाचिदप्युपलब्ध्यर्थक्रिये करोति यथा गगनारविन्दम् । करोति चैतत्रैलोक्यं कदाचिदप्युपलब्ध्यर्थक्रिये इति । तथोत्पत्तिमद्द्रव्यत्वधर्मलक्षणावस्थायोगित्वादयोऽप्यत्यन्ततुच्छागगननलिननरविषाणादिव्यावृत्ताः सत्त्वहेतव उदाहार्याः । तथा च नात्यन्तनित्यो येन चितिशक्तिवत्कूटस्थनित्यः स्यात् । किं तु कथञ्चिन्नित्यः । तथा च परिणामीति सिद्धम् । एतेन मृत्पिण्डाद्यवस्थासु कार्याणां घटादीनामनागतानां सत्त्वं वेदितव्यम् । स्यादेतत्- अपेतमपि चेदस्ति कस्मात्पूर्ववनोपलभ्यत इत्यत आहसंसर्गात्स्वकारणलयात्सौक्ष्म्यं दर्शनानर्हत्वं ततश्चानुपलब्धिरिति ।
तदेवं धर्मपरिणामं समर्थ्य लक्षणपरिणाममपि लक्षणानां परस्परानुगमनेन समर्थयते - लक्षणपरिणाम इति । एकैकं लक्षणं लक्षणान्तराभ्यां समनुगतमित्यर्थः । नन्वेकलक्षणयोगे लक्षणान्तरे नानुभूयेते । तत्कथं तद्योग इत्यत आह-यथा पुरुष इति । न ह्यनुभवाभाव: प्रमाणसिद्धमपलपति । तदुत्पाद एव तत्र तत्सद्भावे प्रमाणम् । असत उत्पादासंभवान्नरविषाणवदिति ।
परोक्तं दोषमुत्थापयति-अत्र लक्षणपरिणाम इति । यदा धर्मो वर्तमानस्तदैव यद्यतीतोऽनागतश्च तदा त्रयोऽप्यध्वानः संकीर्येरन् । अनुक्रमेण चाध्वनां भावेऽसदुत्पादप्रसङ्ग इति भाव: । परिहरति तस्य परिहार इति । वर्तमानतैव हि धर्माणामनुभवसिद्धा, ततः प्राक्पश्चात्कालसंबन्धमवगमयति । न खल्वसदुत्पद्यते, न च सद्विनश्यति । तदिदमाह एवं हि न चित्तमिति । कोघोत्तरकालं हि चित्तं रागधर्मकमनुभूयते । यदा च रागः क्रोधसमयेऽनागतत्वेन नासीत्कथमसावुत्पद्येत ? अनुत्पत्रश्च कथमनुभूयेतेति ?
I
भवत्वेवं तथापि कुतोऽध्वनामसंकर इति पृच्छति - किञ्चेति । किं कारणमसंकरे । च: पुनरर्थे । उत्तरमाह - त्रयाणां लक्षणानां युगपत्रास्ति संभव: । कस्मिन् ? एकस्यां चित्तवृत्तौ । क्रमेण तु लक्षणानामेकतमस्य स्वव्यञ्जकाञ्जनस्य भावो भवेत्संभवेत् । लक्ष्याधीननिरूपणतया लक्षणानां लक्ष्याकारेण तद्वत्ता । अत्रैव पञ्चशिखाचार्यसंमतिमाहउक्तं चेति । एतच्च प्रागेव व्याख्यातम् । उपसंहरति- तस्मादिति । आविर्भावतिरो