________________
પા. ૩ સૂ. ૧૩] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્તવૈશારદી [ २८५
इति । परिणामभेदानां संबन्धिभेदान्निर्धारयति - तत्रानुभवानुसाराद्धर्मिण इति । तत्किमेष परिणामो गुणानां कादाचित्कः, नेत्याह - एवमिति । कस्मात्पुनरयं परिणाम: सदातन इत्यत आह-चलं चेति । चो हेत्वर्थः । वृत्तं प्रचारः । एतदेव कुत इत्यत आहगुणस्वाभाव्यमिति । उक्तमत्रैव पुरस्तात् । सोऽयं त्रिविधोऽपि चित्तपरिणामो भूतेन्द्रियेषु सूत्रकारेण निर्दिष्ट इत्याह- एतेनेति । एष धर्मपरिणामभेदो धर्मधर्मिणोर्भेदमालक्ष्य । तत्र भूतानां पृथिव्यादीनां धर्मिणां गवादिर्घटादिर्वा धर्मपरिणामः । धर्माणां चातीतानागतवर्तमानरूपता लक्षणपरिणामः । वर्तमानलक्षणापन्नस्य गवादेर्वाल्यकौमारयौवनवार्धकमवस्थापरिणामः । घटादीनामपि नवपुरातनतावस्थापरिणामः । एवमिन्द्रियाणामपि धर्मिणां तत्तन्नीलाद्यालोचनं धर्मपरिणामो धर्मस्य वर्तमानतादिलक्षणपरिणामो वर्तमानलक्षणस्य रत्नाद्यालोचनस्य स्फुटत्वास्फुटत्वादिरवस्थापरिणामः । सोऽयमेवंविधो भूतेन्द्रियपरिणामो धर्मिणो धर्मलक्षणावस्थानां भेदमाश्रित्य वेदितव्यः ।
अभेदमाश्रित्याह-परमार्थतस्त्विति । तुशब्दो भेदपक्षाद्विशिनष्टि । पारमार्थिकत्वमस्य ज्ञाप्यते, न त्वन्यस्य परिणामत्वं निषिध्यते । कस्मात् - धर्मिस्वरूपमात्रो हीति । ननु यदि धर्मविक्रियैव धर्मः, कथमसंकरप्रत्ययो लोके परिणामेष्वित्यत आह- धर्मद्वारेति । धर्मशब्देन धर्मलक्षणावस्थाः परिगृह्यन्ते । तद्द्वारेण धर्मिण एव विक्रियेत्येका चासंकीर्णा च । तद्द्वाराणामभेदेऽपि धर्मिणः परस्परासंकरात् । ननु धर्मिणो धर्माणामभिन्नत्वे धर्मिणोऽध्वनां च भेदे धर्मिणोऽनन्यत्वेन धर्मेणापीह धर्मिवद्भवितव्यमित्यत आह-तत्र धर्मस्येति । भावः संस्थानभेदः । सुवर्णादेर्यथा भाजनस्य रुचकस्वस्तिकव्यपदेशभेदो भवति तन्मात्रमन्यथा भवति, न तु द्रव्यं सुवर्णमसुवर्णतामुपैति, अत्यन्तभेदाभावादिति वक्ष्यमाणोभिसंधिः ।
एकान्तवादिनं बौद्धमुत्थापयति- अपर आहेति । धर्मा एव हि रुचकादयस्तथोत्पन्नाः परमार्थसन्तो न पुनः सुवर्णं नाम किञ्चिदेकमनेकेष्वनुगतं द्रव्यमिति । यदि पुनर्निवर्तमानेष्वपि धर्मेषु द्रव्यमनुगतं भवेत्ततो न चितिशक्तिवत्परिणमेत । अपि तु कौटस्थ्येनैव विपरिवर्तेत । परिणामात्मकं रूपं परिहाय रूपान्तरेण कौटस्थ्येन परिवर्तनं परिवृत्ति: । यथा चितिशक्तिरन्यथान्यथाभावं भजमानेष्वपि गुणेषु स्वरूपादप्रच्युता कूटस्थनित्यैवं सुवर्णाद्यपि स्यात् । न चेष्यते, तस्मान्न द्रव्यमतिरिक्तं धर्मेभ्य इति ।
परिहरति-अयमदोष इति । कस्मात् । एकान्तानभ्युपगमात् । यदि चितिशक्तेरिव द्रव्यस्यैकान्तिकीं नित्यतामभ्युपगच्छेम तत एवमुपालभ्येमहि । न