________________
२८४]
પતંજલિનાં યોગસૂત્રો
[41. 3 सू. १३
પરિણામો ધર્મીના સ્વરૂપનું અતિક્રમણ કરતાં નથી. તેથી એક પરિણામ આ બધી વિશેષતાઓને આવરી લે છે.
પરિણામ શું છે? સ્થિર દ્રવ્યમાં પહેલાંના ધર્મની નિવૃત્તિ થતાં બીજા ધર્મની ઉત્પત્તિ થાય એ પરિણામ છે. ૧૩
तत्त्व वैशारदी प्रासङ्गिकं च वक्ष्यमाणौपयिकं च भूतेन्द्रियपरिणामं विभजते-एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः । व्याचष्टे-एतेनेति । ननु चित्तपरिणतिमात्रमुक्तं न तु तत्प्रकारा धर्मलक्षणावस्थापरिणामाः, तत्कथं तेषामतिदेश इत्यत आह-तत्र व्युत्थाननिरोधयोरिति । धर्मलक्षणावस्थाशब्दाः परं नोच्चारिता, न तु धर्मलक्षणावस्थापरिणामा नोक्ता इति संक्षेपार्थः । तथा हि व्युत्थाननिरोधसंस्कारयोरित्यत्रैव सूत्रे धर्मपरिणाम उक्तः । इमं च धर्मपरिणामं दर्शयता तेनैव धर्माधिकरणो लक्षणपरिणामोऽपि सूचित एवेत्याह- लक्षणपरिणाम इति । लक्ष्यतेऽनेनेति लक्षणं कालभेदः । तेन हि लक्षितं वस्तु वस्त्वन्तरेभ्यः कालान्तरयुक्तेभ्यो व्यवच्छिद्यत इति । निरोधस्त्रिलक्षणः । अस्यैव व्याख्यानं त्रिभिरध्वभिर्युक्तः । अध्वशब्दः कालवचनः । स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा । तत्किमध्ववद्धर्मत्वमप्यतिपतति, नेत्याह-धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः इति । य एव निरोधोऽनागत आसीत्स एव संप्रति वर्तमानो न तु निरोधोऽनिरोध इत्यर्थः । वर्तमानतास्वरूपव्याख्यानम्-यत्रास्य स्वरूपेण स्वोचितार्थक्रियाकरणस्वरूपेणाभिव्यक्तिः समुदाचारः । एषोऽस्य प्रथममनागतमध्वानमपेक्ष्य द्वितीयोऽध्वा । स्यादेतत्- अनागतमध्वानं हित्वा चेद्वर्तमानतामापनस्तां च हित्वातीततामापत्स्यते, हन्त भोरध्वनामुत्पादविनाशौ स्याताम् । न चेष्यते । न ह्यसत उत्पादो नापि सतो विनाश इति । अत आह- न चातीतानागताभ्यां सामान्यात्मनावस्थिताभ्यां वियुक्त इति ।
___ अनागतस्य निरोधस्य वर्तमानतालक्षणं दर्शयित्वा वर्तमानव्युत्थानस्यातीततां तृतीयमध्वानमाह-तथा व्युत्थानमिति । तत्कि निरोध एवानागतो न व्युत्थानं, नेत्याहएवं पुनर्युत्थानमिति । व्युत्थानजात्यपेक्षया पुनर्भावो न व्यक्त्यपेक्षया । न ह्यतीतं पुनर्भवतीति । स्वरूपाभिव्यक्तिरर्थक्रियाक्षमस्याविर्भावः । स चैवं लक्षणपरिणाम उक्तस्तज्जातीयेषु पौन:पुन्येन वर्तत इत्यत आह-एवं पुनरिति ।
धर्मपरिणामसूचितमेवावस्थापरिणाममाह- तथेति । धर्माणां वर्तमानाध्वनां बलवत्त्वाबलवत्त्वे अवस्था । तस्याः प्रतिक्षणं तारतम्यं परिणामः । उपसंहरति-एष