________________
ત્રીજો વિભૂતિપાદ
उक्तानि पञ्च बहिरङ्गाणि साधनानि । धारणा वक्तव्या । पांय पारंग સાધનો કહ્યાં. ધારણા કહેવી જોઈએ
देशबन्धश्चित्तस्य धारणा ॥१॥ એક સ્થાનમાં ચિત્તની સ્થિરતા ધારણા છે. ૧
भाष्य नाभिचक्रे, हृदयपुण्डरीके, मूर्जि ज्योतिषि, नासिकाग्रे, जिह्वान इत्येवमादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा ॥१॥
नामिय, ६६यमण, भूपानी योनि, नासिनो भयमा, જીભનો અગ્રભાગ વગેરે સ્થાનોમાં અથવા બહારના કોઈ પદાર્થપર ચિત્તને વૃત્તિમાત્રથી સ્થિર કરવું ધારણા છે. ૧
तत्त्व वैशारदी __ प्रथमद्वितीयपादाभ्यां समाधिस्तत्साधनं चोक्तम् । तृतीयपादे तत्प्रवृत्त्यनुगुणाः श्रद्धोत्पादहेतवो विभूतयो वक्तव्याः । ताश्च संयमसाध्याः । संयमश्च धारणाध्यानसमाधिसमुदाय इति विभूतिसाधनतया, पञ्चभ्यश्च योगाङ्गेभ्यो बहिरंगेभ्योऽस्याङ्गत्रयस्यान्तरङ्गतया विशेषज्ञापनार्थमत्र त्रयस्योपन्यासः । तत्रापि च धारणाध्यानसमाधीनां कार्यकारणभावेन नियतपौर्वापर्यत्वात्तदनुरोधेनोपन्यासक्रम इति प्रथम धारणा लक्षणीयेत्याह-उक्तानीति । देशबन्धश्चित्तस्य धारणा । बन्धः संबन्धः । आध्यात्मिकदेशमाह-नाभिचक्र इति । आदिशब्देन ताल्वादयो ग्राह्याः । बाह्यदेशमाहबाह्य इति । बाह्ये च न स्वरूपेण चित्तस्य संबन्धः संभवतीत्युक्तं वृत्तिमात्रेण ज्ञानमात्रेणेत्यर्थः । अत्रापि पुराणम्
प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् ।
वशीकृत्य ततः कुर्याच्चित्तस्थानं शुभाश्रये ॥ (विष्णु पु. ६७।४५) शुभाश्रया बाह्या हिरण्यगर्भवासवप्रजापतिप्रभृतयः । इदं च तत्रोक्तम्