________________
પા. ૨ સૂ. ૫૪] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [ ૨૬૯
अथ कः प्रत्याहार: ? प्रत्याहार शुंछ ?
स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार
इवेन्द्रियाणां प्रत्याहारः ॥५४॥ પોતાના વિષયો સાથે સંયોગ ન થતાં, ચિત્તના સ્વરૂપનું જાણે કે અનુકરણ કરે, એ ઇન્દ્રિયોનો પ્રત્યાહાર છે. ૫૪
भाष्य स्वविषयसंप्रयोगाभावे चित्तस्वरूपानुकार इवेति चित्तनिरोधे चित्तवनिरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवदुपायान्तरमपेक्षन्ते । यथा मधुकरराजं मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनुनिवेशन्ते तथेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्येष प्रत्याहारः ॥५४॥
પોતાના વિષયો સાથે સંયોગના અભાવે, ચિત્તના સ્વરૂપનું જાણે કે અનુકરણ થાય, એટલે કે ચિત્ત-નિરોધ થતાં, ચિત્તની જેમ ઇન્દ્રિયોનો પણ નિરોધ થાય અને એમના જય માટે બીજા ઉપાયની અપેક્ષા ન રહે એ પ્રત્યાહાર છે. જેમ મધમાખીઓ પોતાના રાજાના ઊડવા સાથે ઊડી જાય અને એના બેસવા સાથે બેસે, એમ ઈન્દ્રિયો ચિત્તનિરોધથી નિરુદ્ધ થઈ જાય છે, એ પ્રત્યાહાર છે. ૫૪
तत्त्व वैशारदी तदेवं यमादिभिः संस्कृतः संयमाय प्रत्याहारमारभते । तस्य लक्षणसूत्रमवतारयितुं पृच्छति-अथेति । स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः। चित्तमपि हि मोहनीयरञ्जनीयकोपनीयैः शब्दादिभिर्विषयैर्न संप्रयुज्यते, तदसंप्रयोगाच्चक्षुरादीन्यपि न संप्रयुज्यन्त इति सोऽयमिन्द्रियाणां चित्तस्वरूपानुकारः। यत्पुनस्तत्त्वं चित्तमभिनिविशते न तदिन्द्रियाणां बाह्यविषयविषयाणामनुकारोऽपि । अत उक्तमनुकार इवेति । स्वविषयासंप्रयोगस्य साधारणस्य धर्मस्य चित्तानुकारनिमित्तत्वं सप्तम्या दर्शयतिस्वेति । अनुकारं विवृणोति-चित्तनिरोध इति । द्वयोनिरोधहेतुश्च प्रयत्नस्तुल्य इति सादृश्यम्। अत्रैव दृष्टान्तमाह-यथा मधुकरराजमिति । दार्टान्तिके योजयति- तथेति । अत्रापि विष्णुपुराणवाक्यम्
शब्दादिष्वनुषक्तानि निगृह्याक्षाणि योगवित् ।
कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ।। (६७४३) तस्य प्रयोजनं तत्रैव दर्शितम्