________________
२४८ ]
छे. भाष्य स्पष्ट छे. 33
પતંજલિનાં યોગસૂત્રો
★
[ पा. २ सू. ३४
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफलाइति प्रतिपक्षभावनम् ॥३४॥
"हिंसा वगेरे वितर्डी (संडस्यो भने डार्यो) रेसा, उरावेसा, અનુમોદન કરેલા, લોભ, ક્રોધ, મોહપૂર્વક, મૃદુ, મધ્યમ કે તીવ્ર ભાવે સેવેલા અનંત દુઃખ અને अज्ञान३५ इज खापनारा छे, " खेभ प्रतिपक्ष (विरोधी) ભાવના કરવી. ૩૪
भाष्य
तत्र हिंसा तावत्-कृता कारितानुमोदितेति त्रिधा । एकैका पुनस्त्रिधा लोभेन मांसचर्मार्थेन, क्रोधेनापकृतमनेनेति, मोहेन धर्मो मे भविष्यतीति लोभक्रोधमोहाः । पुनस्त्रिविधा मृदुमध्याधिमात्रा इति । एवं सप्तविंशतिर्भेदा भवन्ति हिंसायाः । मृदुमध्याधिमात्राः पुनस्त्रिविधा: मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरिति । तथा मृदुमध्यो मध्यमध्यस्तीव्रमध्य इति । तथा मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति । एवमेकाशीतिभेदा हिंसा भवति । सा पुनर्नियमविकल्पसमुच्चयभेदादसंख्येया प्राणभृद्भेदस्यापरिसंख्येयत्वादिति । एमनृतादिष्यपि योज्यम् ।
ते खल्वमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्, दुःखमज्ञानं चानन्तं फलं येषामिति प्रतिपक्षभावनम् । तथा च हिंसकस्तावत्प्रथमं वध्यस्य वीर्यमाक्षिपति, ततश्च शस्त्रादिनिपातेन दुःखयति, ततो जीवितादपि मोचयति । ततो वीर्याक्षेपादस्य चेतनाचेतनमुपकरणं क्षीणवीर्यं भवति, दुःखोत्पादान्नरकतिर्यक्प्रेतादिषु दुःखमनुभवति, जीवितव्यपरोपणात्प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नपि दुःखविपाकस्य नियतविपाकवेदनीयत्वात्कथञ्चिदेवोच्छ्वसिति । यदि च कथञ्चित्पुण्यावापगता हिंसा भवेत्तत्र सुखप्राप्तौ भवेदल्पायुरिति । एवमनृतादिष्वपि योज्यं यथासंभवम् । एवं वितर्काणां