________________
પા. ૨ સૂ. ૨૮] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્તવૈશારદી [ २३५
इति ज्ञानम् | अग्निश्चासौ ज्ञानं चेत्यग्निज्ञानं तस्य । एतदुक्तं भवति - वर्तमानस्यैवाग्नेर्ज्ञेयस्य प्रत्ययकारणतया कारणमिति । प्रप्तिकारणम् - औत्सर्गिकी निरपेक्षाणां कारणानां कार्यक्रिया प्राप्तिः । तस्याः कुतश्चिदपवादोऽप्राप्तिः । यथा निम्नोपसर्पणस्वभावानामपां प्रतिबन्धः सेतुना, तथेहापि बुद्धिसत्त्वस्य सुखप्रकाशशीलस्य स्वाभाविकी सुखविवेकख्यातिजनकता प्राप्तिः । सा कुतश्चिदधर्मात्तमसो वा प्रतिबन्धान्न भवति । धर्माद्योगाङ्गानुष्ठानाद्वा तदपनये तदप्रतिबद्धवृत्ति स्वभावत एव तज्जनकतया तदाप्नोति । यथा वक्ष्यति निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् (४।३) इति ।
तदेवं विवेकख्यातिलक्षणकार्यापेक्षया प्राप्तिकारणमुक्तम् । अवान्तरकार्यापेक्षया तु तदेव वियोगकारणमित्याह - वियोगकारणमिति । अन्यत्वकारणमाह- अन्यत्वकारणं यथा सुवर्णकारः सुवर्णस्येति । कटककुण्डलकेयूरादिभ्यो भिन्नाभिन्नस्य भेदविवक्षया कटकादिभिन्नस्याभेदविवक्षया कटकाद्यभिन्नस्य सुवर्णस्य कुण्डलादन्यत्वम् । तथा च कटककारी सुवर्णकारः कुण्डलादभिन्नात्सुवर्णादन्यत्कुर्वन्नन्यत्वकारणम् । अग्निरपि पाक्यस्यान्यत्वकारणं यद्यपि, तथापि धर्मिणो धर्मयोः पुलाकत्वतण्डुलत्वयोर्भेदाविवक्षया धर्मयोरुपजनापायेऽपि धर्म्यनुवर्तत इति न तस्यान्यत्वं शक्यं वक्तुमिति विकारमात्रकारणत्वमुक्तमिति न संकरः । न च संस्थानभेदो धर्मिणोऽन्यत्वकारणमिति व्याख्येयम्, सुवर्णकार इत्यस्यासंगतेः । बाह्यमन्यत्वकारणमुपन्यस्याध्यात्मिकमुदाहरति- एवमेकस्येति । अविद्या कमनीयेयं कन्यकेत्यादिज्ञानम् । सम्मोहयोगात्स एव स्त्रीप्रत्ययो मूढो विषष्णो भवति चैत्रस्य, मैत्रस्य पुण्यवतो बत कलत्ररत्नमेतन्न तु मम भाग्यहीनस्येति । एवं सपत्नीजनस्य तस्यां द्वेषः स्त्रीप्रत्ययस्य दुःखत्वे । एवं मैत्रस्य तस्या भर्त रागस्तस्यैव स्त्रीप्रत्ययस्य सुखत्वे । तत्त्वज्ञानं त्वङ्मांसमेदोऽस्थिमज्जासमूहः स्त्रीकायः स्थानबीजादिभिरशुचिरिति विवेकिनां माध्यस्थ्ये वैराग्ये कारणमिति । धृतिकारणं शरीरमिन्द्रियाणां विधारकम् । इन्द्रियाणि च शरीरस्य । सामान्या कारणवृत्तिर्हि प्राणाद्या वायवः पञ्च । तदभावे शरीरपातात् । एवं मांसादिकायाङ्गानामपि परस्परं विधार्यविधारकत्वम् । एवं महाभूतानि पृथिव्यादीनि मनुष्यवरुणसूर्यगन्धवहशशिलोकनिवासिनां शरीराणाम् । तानि च परस्परम् । पृथिव्यां हि गन्धरसरूपस्पर्शशब्दगुणायां पञ्च महाभूतानि परस्परं विधार्यविधारकभावेनावस्थितान्यप्सु चत्वारि तेजसि त्रीणि द्वे च मातरिश्वनीति । तैर्यग्योनमानुषदैवतादीनि च विधार्यविधारकभावेनावस्थितानि । नन्वाधाराधेयभावरहितानां कुतस्तत्त्वमित्यत आह- परस्परार्थत्वादिति । मनुष्यशरीरं हि पशुपक्षिमृगसरीसृपस्थावरशरीरोपयोगेन ध्रियते । एवं व्याघ्रादिशरीरमपि मनुष्यपशुमृगादिशरीरोपयोगेन । एवं पशुमृगादिशरीरमपि