________________
२३४]
પતંજલિનાં યોગસૂત્રો
[पा. २ सू. २८
અને તત્ત્વજ્ઞાનથી મધ્યસ્થતા વગેરેનું અન્યત્વકારણ છે. શરીર ઇન્દ્રિયોનું કૃતિકારણ અને ઇન્દ્રિયો શરીરનું ધૃતિકારણ છે. પાંચ મહાભૂતો શરીરોનું અને એ પાંચ પરસ્પર એકબીજાનાં કૃતિકારણ છે. કારણ કે પશુઓ, મનુષ્યો અને દેવો પરસ્પર માટે છે. આમ નવ પ્રકારનાં કારણો છે. એમને યથાસંભવ અન્યપદાર્થોમાં પણ યોજવાં જોઈએ. યોગાંગોનું અનુષ્ઠાન પ્રાપ્તિકારણ અને વિયોગકારણ બંને છે. ૨૮
तत्त्ववैशारदी
तदेवं चतुरो व्यूहानुक्त्वा तन्मध्यपतितस्य हानोपायस्य विवेकख्यातेर्गोदोहनादिवत्प्रागसिद्धेरसिद्धस्य चोपायत्वाभावात्सिद्ध्युपायान्वक्तुमारभत इत्याह- सिद्धेति । तत्राभिधास्यमानानां साधनानां येन प्रकारेण विवेकख्यात्युपायत्वं तद्दर्शयति सूत्रेण - योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः । योगाङ्गानि हि यथायोगं दृष्टादृष्टद्वारेणाशुद्धि क्षिण्वन्ति । पञ्चपर्वणो विपर्ययस्येत्युपलक्षणं पुण्यापुण्ययोरपि जात्यायुर्भोगहेतुत्वेनाशुद्धिरूपत्वादिति । शेषं सुगमम् । नानाविधस्य कारणभावस्य दर्शनाद्योगाङ्गानुष्ठानस्य कीदृशं कारणत्वमित्यत आह- योगाङ्गानुष्ठानमिति । अशुद्ध्या वियोजयति बुद्धिसत्त्वमित्यशुद्धेर्वियोगकारणम् । दष्टान्तमाह-यथा परशुरिति । परशुश्छेद्यं वृक्षं मूलेन वियोजयति । अशुद्ध्या वियोजयद् बुद्धिसत्त्वं विवेकख्यातिं प्रापयति । यथा धर्मः सुखम् । तथा योगांगानुष्ठानं विवेकख्यातेः प्राप्तिकारणं नान्येन प्रकारेणेत्याहविवेकख्यातेस्त्विति । नान्यथेति प्रतिषेधश्रवणात्पृच्छति - कति चैतानीति । उत्तरम् - नवैवेति । तानि दर्शयति कारिकया तद्यथा उत्पत्तीति ।
-
अत्रोदाहरणान्याह तत्रोत्पत्तिकारणमिति । मनो हि विज्ञानमव्यपदेश्यावस्थातोऽपनीय वर्तमानावस्थामापादयदुत्पत्तिकारणं विज्ञानस्य । स्थितिकारणं मनसः पुरुषार्थता । अस्मिताया उत्पन्नं मनस्तावदवतिष्ठते न यावद्द्विविधं पुरुषार्थमभिनिर्वर्तयति । अथ निर्वर्तितपुरुषार्थद्वयं स्थितेरपैति, तस्मात्स्वकारणादुत्पन्नस्य मनसोऽनागतपुरुषार्थता स्थितिकारणम् । दृष्टान्तमाह- शरीरस्येवेति । प्रत्यक्षज्ञाननिमित्तमिन्द्रियद्वारा वा स्वतो वा विषयस्य संस्क्रियाभिव्यक्तिस्तस्यां कारणं यथा रूपस्यालोकः । विकारकारणं मनसो विषयान्तरम् । यथा हि मृकण्डोः समाहितमनसो वल्लकीविपञ्चयमानपञ्चमस्वरश्रवणसमनन्तरमुन्मीलिताक्षस्य स्वरूपलावण्ययौवनसंपन्नामप्सरसं प्रम्लोचामीक्षमाणस्य समाधिमपहाय तस्यां सक्तं मनो बभूवेति । अत्रैव निदर्शनमाहयथाग्निः पाक्यस्य तण्डुलादेः कठिनावयवसंनिवेशस्य प्रशिथिलावयवसंयोगलक्षणस्य विकारस्य कारणम् । सत एव विषयस्य प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्येति । ज्ञायत