________________
પા. ૨ સૂ. ૨૩] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [ ૨૧૫
(शण) पुरुषो प्रत्ये सापा२९ छ. “भात्र" श६ प्रयोछने व्या शव छ. તેથી એવું સિદ્ધ થયું કે એક મહિનો એક પુરુષ સાથેનો સંયોગ અતીતપણાને પ્રાપ્ત થયો, છતાં અન્ય મહત્વનો બીજા પુરુષ સાથેનો સંબંધ અતીત બન્યો નથી, તેથી એને નિત્ય કહ્યો છે. ૨૨
संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते- संयोगर्नु स्व३५ टेवा माटे मा સૂત્ર પ્રવૃત્ત થયું છેस्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२३॥
સ્વ (દશ્ય) અને સ્વામી (દ્રા) બંનેના પોતાના સ્વરૂપની પ્રાપ્તિનો હેતુ સંયોગ છે. ૨૩
भाष्य पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः । तस्मात्संयोगाद् दृश्यस्योपलब्धिर्या स भोगः, या तु द्रष्टः स्वरूपोपलब्धिः सोऽपवर्गः । दर्शनकार्यावसानः संयोग इति दर्शनं वियोगस्य कारणमुक्तम् । दर्शनमदर्शनस्य प्रतिद्वन्द्वीत्यदर्शनं संयोगनिमित्तमुक्तम् । नात्र दर्शनं मोक्षकारणम्, अदर्शनाभावादेव बन्धाभावः स मोक्ष इति । दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्यतो दर्शनज्ञानं कैवल्यकारणमुक्तम् ।
१ - किं चेदमदर्शनं नाम ? किं गुणानामधिकारः ?
२ - आहोस्विद् दृशिरूपस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्यानुत्पादः स्वस्मिन्दृश्ये विद्यमाने दर्शनाभावः ?
३ - किमर्थवत्ता गुणानाम् ? ४ - अथाविद्या स्वचितेन सह निरुद्धा स्वचित्तस्योत्पत्तिबीजम् ?
५ - किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः ? यत्रेदमुक्तंप्रधानं स्थित्यैव वर्तमानं विकाराकरणादप्रधानं स्यात् तथा गत्यैव वर्तमानं विकारनित्यत्वादप्रधानं स्यात् । उभयथा चास्य प्रवृत्तिः प्रधानव्यवहारं लभते, नान्यथा । कारणान्तरेष्वपि कल्पितेष्वेष समानश्चर्चः ।
६ - दर्शनशक्तिरेवादर्शनमित्येके;, प्रधानस्यात्मख्यापनार्था